SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ प्रपन्ना] प्रबन्धकोशेत्यपराहये [16] / / अथ वङ्कचूलप्रवन्धः // 'पारेत'जनपदान्त-'श्चर्मण्वत्या' स्तटे महानद्याः / नानाघनवनगहना, जयत्यसौ 'टीम्पुरीति पुरी // 1 // अत्रैव 'भारते' वर्षे विमलयशा नाम भूपतिरभूत् / तस्य सुमङ्गला- 5 देव्या सह विषयसुखमनुभवतः क्रमाजातमपत्ययुगलम् / तत्र पुत्रः पुष्पचूलः पुत्री पुष्पचूला। अनर्थसार्थमुत्पादयतः पुष्पचूलस्य कृतं लोकैर्वङ्कचूल इति नाम / महाजनोप(पा)लब्धेन राज्ञा रुषितेन निःसारितो नगराद् वङ्कचूलः / गच्छंश्च पथि पतितो भीषणायामटव्यां सह निजपरिजनन स्वस्रा च स्नेहपरवशया / 10 तत्र च क्षुत्पिपासार्दितो दृष्टो भिल्लैः नीतः स्वपल्लयाम् / स्थापितश्व पूर्वपल्लीपतिपदे / पर्यपालयद् राज्यम् / अलुण्ठयद् ग्राम-नगरसार्थादीन् / अन्यदा सुस्थिताचार्या 'अर्बुदा'चला'दष्टापद यात्रायै प्रस्थितास्तामेव 'सिंहगुहां' नाम पल्ली सगच्छाः प्रापुः / जातश्च 15 वर्षाकालः / अजनि पृथिवी जीवाकुला / साधुभिः सहालोच्य मार्गयित्वा वङ्कचूला वसतिं स्थितास्तत्रैव सूरयः / तेन च प्रथममेव व्यवस्था कृता-- मम सीमान्तधर्मकथा न कथनीया, यतो युष्मत्कथायां अहिंसादिको धर्मः, न चैवं मम लोको निर्वहति / एवमस्तु इति प्रतिपद्य तस्थुरुपाश्रये गुरवः / वकचूलेनाहूय 20 सर्वे प्रधानपुरषा भणिताः ---अहं राजपुत्रस्तन्मत्समीपे ब्राह्मणादय आगमिष्यन्ति / ततो भवद्भिर्जीववधो मांसमद्यादिप्रसङ्गश्च पछीमध्ये न कर्तव्यः / एवं कृते यतीनामपि भक्तपानमजुगुप्सितं पाल्पत इति / तैस्तथैव कृतं यावच्चतुरो मासान् / प्राप्तो विहार - - - , आर्या / 2 ग. 'भूतपूर्व' / 3 ग-पछया मध्ये' / चतुर्विशति..
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy