SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः] प्रबन्धकोशेत्यपराह्वये तितुम्बरौ मधुरस्वरं गायति सति श्रुतं तत्स्वरूपं महादेव्या दासीमुखेन / भूपं विज्ञाप्य तच्छीर्ष स्वान्तिकमानायितम् / प्रत्यहं तमजीगपत् राज्ञी / दिनान्तरे रात्रौ प्रस्तावमासाथ सद्य एवापहरति स्म तां मायासुरः। आरोपयामास च ता 'घण्टावलम्बि'नामनि स्वविमाने / राज्ञी च करुणं क्रन्दितुमारेभे- हाऽहं 5 केनाप्यपहिये / आस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति ? / तच खून्दलाभिख्येन वीरेण श्रुत्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत / ततस्तत्पाणिनाऽवष्टब्धं विमानं पुरस्तान्न प्राचालीत् / तदनु चिन्तितं मायासुरेण --- किमर्थ विमानमेतन्न सर्पति ? / यावदद्राक्षीत् तं वीरं हस्तावलम्बितघण्टम् / 10 ततः खड्गेन तद्धस्तमाच्छिदत् / पतितः पृथिव्यां वीरः / स चासुरः पुरः 'प्राचलत् / ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिशद् यत् पट्टदेव्याः शुद्धिः क्रियतां केनेयमपहृतेति / ते प्रागपि शूद्रकं प्रत्यसूयापरा: प्रोचुः--महाराज! शूद्रक एव जानीते। तेनैव तच्छीर्षकमानीतम् / तेनैव दैवी जहे / 15 ततो नृपतिस्तस्मै कुपितः शूलारोपणमाज्ञापयत् / तदनु देशरीतिवशात् तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा तेन सह गाढं बद्ध्वा शूलाय यावद् राजपुरुषाश्चेलः तावत् पश्चाशदपि वीराः सम्भूय शूद्रकमवोचन्- भो महावीर ! किमर्थ रऐडेव म्रियते भवान् / अशुभस्य कालहरणमिति न्यायात् मार्गय नरेन्द्रात् कतिपय- 20 दिनावधिम् / शोधय सर्वत्र देव्यपहारिणम् / किमकाण्डे एव स्वकीयां वीरत्वकीर्तिमपनयसि / तेनोक्तम्--गम्यतां तर्हि उपराजम् / विज्ञाप्यतामेनमर्थ राजा / तैरपि तथाकृते प्रत्यानायितः शूद्रका क्षितीन्द्रेण / तेनापि स्वमुखेन विज्ञप्तिः कृता-- महाराज ! दीयतामवधिः येन विचिनोमि प्रतिदिशं देवीं तदपहरिणं च / 25 1 ख- 'घण्टाविलम्बि'। 2 ख- 'लंबूदलाभिख्यखून्दला.'। 3 घ'विलम्बित०' / / ख- 'प्रचालीत'। 5 'रोडीरांड' इति भाषायाम /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy