SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [15 श्रीसातवाइनराज्ञा दिनदशकमवधिदत्तः / शुद्रकगृहे च सारमेयद्वयमासीत् तत्सहचारि / नृपतिरवदत्- एतद् भषणयुगलं प्रतिभप्रायमस्मत्पार्श्वे मुश्च / स्वयं पुनर्भवान् देव्युदन्तोपलब्धये 'हिण्डतां महीमण्डलम् / सोऽप्यादेशः प्रमाणमित्युदीर्य प्रवीर्यवानुपतस्थे / भूचक्रशकस्तत् कौलेयकद्वन्द्वं शृङ्खलाबद्धं शय्यापादयोरबध्नात् / शूद्रकस्तु परितः पर्यटत् / अट्यमानोऽपि यावत् प्रस्तुतार्थस्य वार्तामात्रमपि क्वापि नोपलेभे तावदचिन्तयत् -- अहो ममेदमयशः प्रादुरभूद् यदयं स्वामिद्रोही भूत्वा देवीमपाजीहरदिति / न च कापि शुद्धिर्लब्धा तस्याः / तस्मान्मरणमेव मम शरणम् / इति विमृश्य 10 दारुभिश्चितामरचयत् / “ज्वलन चाज्वालयत् / यावन्मध्यं प्राविशत् तावत् ताभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातं यदस्मदधिपतिर्निधनं वाञ्छन्नस्तीति / ततो दैवतशक्त्या शृङ्खलानि भङ्क्त्वा निर्विलम्बौ गतौ तौ तत्र यत्रासीच्छद्रकरचिता चिता / दशनैः केशानाकृष्य शूद्रकं बहिर्निष्कासयामासतुः / तेनापि अक१५ स्मात् तौ विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ ! किमेतत् कृतं भवद्भ्यामशुभवद्भयाम् ? / राज्ञा मनसि विश्वासनिरासो भविष्यति यत् प्रतिभुवावपि तेनात्मना सह 'नीतौ / भषणाभ्यां बभाषे--- धीरो भव। अस्मद्दर्शितां दिशमनुसर सरभसम्। का चिन्ता तव ? / इत्यभिधाय पुरोभूय प्रस्थिती तेन सार्धम् / क्रमात् 20 प्राप्तौ 'कोल्लापुर'म् / तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ / तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशसंस्तरासीनस्त्रिरात्रमुपावसत् / तदनु प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्--वत्स ! किं मृगयसे / / शुद्रकेणोक्तम्-स्वामिनि ! सातवाहनमहीपालमहिष्याः शुद्धिं वद / कास्ते केनेयमपहृताः ? | श्रीदेव्योदितम्---सर्वान् यक्ष-राक्षस 1 श्वयुग्मम् / २-'मस्मपार्श्व। 3 गच्छतु। 4 ग-'वान् प्रतस्थे / 5 श्वयुगलम् / 6 ग- 'पादेऽन्नीत्। 7 अमिम् / 8 ख-घ-- 'प्रविशत्' / 1 ख- घ- 'धनायमस्तीति'। घ-नीतावप्ति (1) /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy