SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [15 श्रीसातवाहनतैस्तु जगदे--जगदेकसुभग ! कथमिव वयं चिन्ताचान्तचेतसस्त्वया ज्ञाताः ? / कुमारेण बभणे-इङ्गितैः किमिव नाव. गम्यते ! / तैरुक्तम्-युक्तमेतत् , परं भवतः पुरो निवेदितेन चिन्ताहेतुना किं स्यात् ? / बालः खलु भवान् / बाल आलपत्यदि परं जातु मत्तोऽपि साध्यं वः सिध्यति, तन्निवेद्यतां स चिन्ताहेतुः / ततस्ते तद्वचनवैचित्र्यहृतहृदयाः सकलमपि स्वस्वरूपं 'निधिनिरयणादि / मालवेशपरिषद्यपि विवादानिर्णयान्तं तस्मै निवेदितवन्तः / कुमारस्तु स्मितीवच्छुरिताधरोऽवादीद्--- भो विप्राः ! अहं यौष्माकं झंगटकं निर्णयामि, श्रूयतामवहितैः-- यस्मै वप्ता कनककलशं प्रददे स तेनैव निवृत्तोऽस्तु / यस्य कलशे कृष्णमृत्स्ना निरगात् स क्षेत्रकेदारादीन् गृह्णातु / यस्य तु बुशं स कोष्ठागारगतधान्यानि सर्वाण्यपि स्वीकुरुताम् / यस्य चास्थीनि निरगुः सोऽश्व-महिषीदासी-दासादिकमुपादत्ताम् / इति युष्मजनकस्याशयः / इति क्षीरकण्ठोक्तं श्रुत्वा सूत्रकण्ठाः 15 छिन्नवियादाः तद्वचनं प्रतिश्रुत्य तमनुज्ञाप्य प्रत्याययुः स्वा नगरीम् / प्रथिता सा तद्विवादनिर्णयकथा पुर्याम् / राज्ञाऽप्याकार्य ते पर्यनुयुक्ताः --- किं नु भो भवतां वादनिर्णयो जातः ? / तैरुक्तम्-- ओम् स्वामिन् ! / केन निर्णीत इति नृपेणोदिते ते सातवाहनस्वरूपं सर्वमवितथमकथयत् / तदाकर्ण्य तस्य शिशो२० रपि बुद्धिवैभवं विभाव्य प्रागुक्तं दैवज्ञेन तस्य प्रतिष्ठाने ' राज्यं च भविष्यतीत्यनुस्मृत्य तं स्वप्रतिपन्थिनमाकलय्य क्षुभितमनास्तन्मारणोपायमचिन्तयच्चिरं नरेश्वरः / अभिघातकरादिप्रयोगैारिते चास्मिन्नयशःक्षात्रवृत्तिक्षती जायेतामिति विचार्य सन्नद्धचतुरङ्गचमूसमूहो ऽवन्ति'पतिः प्रस्थाय 'प्रतिष्ठान'पत्तनं यथेष्टमवेष्टयत् / 1 घ. 'तसंस्तयाऽज्ञासिष्महि' / 2 घ-वरं' / 3 ख-- 'निधिनिर्गमनादि' / / 'झगडा' इति भाषायाम् / 5 क-'महिषीवृषदासी' / 6 बालेन / 7 विप्राः / 8 ख'अभिषात कमििद.', घ-'असिमरघातकरादि।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy