SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ प्रधE] प्रबन्धकोशेत्यपराह्वये स्थायी बालक्रीडया स्वयं भूपतीभूय तेभ्यो वाहनानि करिदुरग-रथादीनि कृत्रिमाणि दत्तवान् / इति सनोतेदीनार्थत्वाल्लोकैः सातवाहन इति व्यपदेश लम्भितः / स्वजनन्या पाल्यमानः सुखमवस्थितः / इत श्वोजयिन्या' श्रीविक्रमादित्यस्या ऽवन्ति'नरेशितुः सदसि 5 कश्चिन्नैमित्तिकः सातवाहनं प्रतिष्ठान'पुरे भाविनं नरेन्द्रमादिशत् / अर्थतस्यमिव पुर्यामेकः स्थविरविप्रः स्वायुरवसानमवसाय चतुरः स्वतनयानाहूय प्रोक्तवान् , यथा ----वत्सा ! मयि पुरेयुषि मदीयशय्योच्छीर्षकदक्षिणपादारभ्य चतुर्णामपि पादानामधो वर्तमानं निधिकलशचतुष्टयं युष्माभिर्यथाज्येष्ठं विभज्य ग्राह्यं येन भवतां 10 निर्वाहः सम्पनीपद्यते / पुत्रैस्तु तथेत्यादेशः स्वीचक्रे पितुः / तस्मिन्नुपरते तस्यौदैहिकं कृत्वा त्रयोदशेऽहनि भुवं खनित्वा यथायथं चतुरोऽपि निधिकलशास्ते जग्रहिरे / यावदुद्घाट्य विलोकयन्ति तावत् प्रथमस्य कुम्भे कनकम् , द्वैतेयीकस्य कृष्णमृत्स्ना, तृतीयस्य बुशम् , तुरीयस्य स्वस्थीनि दशिरे / तदनु 15 ज्यायसा साकमितरे त्रयो विवदन्ते स्म-तदस्मभ्यमपि विभज्य कनकं वितरेति / तस्मिश्चावितरति सति ते ऽवन्ति' पतेर्द्धर्माधिकारिणमुपास्थिषत / तत्रापि न तेषां वादनिर्णयः समपादि / ततश्चत्वारोऽपि ' महाराष्ट्र 'जनपदमुपानंसिषुः / सातवाहनकुमारस्तु कुलालमृदा हस्तिरथसुभटानन्वहं नवनवान् विदधानः कुलालशालायां 20 बालक्रीडादुर्ललितकलितस्थितिरनयत् समयम् / ते च द्विजतनुजाः 'प्रतिष्ठान पत्तनमुपेत्य परतो भ्रमन्तस्तस्यामेव चक्रजीविनः शालायां तस्थिवांसः / सातवाहनस्तु तानवेक्ष्योङ्गिताकारकुशलः प्रोषाच-भो विप्राः ! किं भवन्तो वीक्षापन्ना इव वीक्ष्यन्ते / 1 ग--'सानं ज्ञात्वा'। 2 ग-'मयि मृते मदीय' / 3 घ-'खात्वा'। ग'बुशाम्'। 5 घ-'नः कलित.'१६ स्न-'मेत्य' / 7 कुलालस्य / 8 ख-वीतापमा'। चर्विवति...
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy