SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रबन्धे [15 श्रीसातवाहन-- [15] // अथ सातवाहनप्रबन्धः // इह 'भारते' वर्षे दक्षिणखण्डे 'महाराष्ट्र देशावतंस श्रीमत् प्रतिछान' नाम पत्तनं विद्यते / तच्च निजभूत्याऽभिभूतपुरन्दरपुरमपि ___ कालान्तरण क्षुल्लकग्रामप्रायमजनिष्ट / तत्र चैकदा द्वौ वैदेशिक द्विजो समागल्य विधवया स्वना साकं कस्यचित् कुम्भकारस्य शालायां तस्थिवांसौ / कणवृत्तिं विधाय कणान् स्वसुरुपनीय तत्कृताहारपाकेन समया कुरुतः स्म / अन्येयुः सा तयोर्विप्रयोः स्वसा जलाहरणाय 'गोदावरी' गता / 10 तस्याः स्वरूपमप्रतिरूपं निरूप्य स्मरपरवशोऽन्तर्हदवासी शेषो नाम नागराजो हृदानिर्गत्य विहितमनुष्यवपुस्तया सह बलादपि सम्भोगकेलिमकलयत् / भवितव्यताविलसितेन तस्याः सप्तधातुरहितस्यापि तस्य दिव्यशक्त्या शुक्रपुद्गलसञ्चाराद् गर्भाधान मभवत् / स्वनामधेयं प्रकाश्य न्यसनसङ्कटे मां स्मरेरित्यभिधाय 15 च नागराज: 'पाताल लोकमगमत् / सा च गृहं प्रत्यगच्छत् / ब्रीडापीडिततया च स्वभ्रात्रोस्तं वृत्तान्तं न खलु न्यवेदयत् / कालक्रमेण सहोदराभ्यां गर्भलिङ्गानि वीक्ष्य सा जातगर्भा इत्यलक्ष्यत / ज्यायसस्तु मनसि शङ्का जाता यदियं खल्ल कनी. यसोपभुक्तति, शङ्कनीयान्तराभावात् / 'यवीयसोऽपि समजनि विकल्पः नूनमेषा ज्यायसा सह विनष्टशीलेति / एवं मिथः कलुषिताशयौ विहाय तामेकाकिनी पृथक् पृथक् देशान्तरमयासिष्टाम् / साऽपि प्रवर्धमानगर्भा परमन्दिरेषु कर्माणि निर्मिमाणा प्राणवृत्तिमकरोत् / क्रमेण पूर्णेऽनेहसि सर्वलक्षणलक्षिताङ्गं प्रासूत सुतम् / स च क्रमाद् वपुषा गुणैश्च वर्धमानः सवयोभिः सह घ-'भ्रात्रोक्तं स्वं वृत्तान्त' / 1 घ-'तस्याश्च रूपः | 2 स्व-स्वं नाम'। - कनीयसः /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy