SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रवन्धकोशेत्यपरालये शति- शठोत्तरमेवेदं दृश्यते / एकदा 'हेरयामि किमिमौ समाचरतः। निशायां विभातायां एकदा राजा छन्नरूप एकाकी तयोर्ग्रन्थनिष्पत्तिप्रदेशकुड्यान्तरेऽस्थात् / तदैव दिग्पटो राजपुत्री प्रति प्रणयकलहानुनयगर्भमाह सुभ्रु ! त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां ___ दूरादेव निराकृताः सुरभयः स्वर्गन्धधूपादयः / रागं रागिणि ! मुश्च मय्यवनते दृष्टे प्रसीदाधुना __ सत्यं त्वद्विरहे भवन्ति दयिते ! सर्वा ममान्धा दिशः॥१॥' एतत्काव्यश्रवणाद् द्वयोर्दोःशील्यं निर्णीय मन्दपदं निर्ययौ / स्थानं गतो वसुधाधिपः / क्रुद्धेन तेन तत्कालमाहूतो दिक्पटः; 10 आगतो भाषितः, यथा-पण्डित ! किमिदं नवीनं पद्यम्-- 'सुभ्र ! वं कुपितेत्यपास्तमशनम्' इत्यादि ? / दिग्वसनेन विमृष्टम् - राज्ञा हेरितोऽहम् / अपराधी लब्धः / तथाप्युत्तरं ददामि यथातथा / इति चिन्तयित्वाऽवनिपतिमभ्यधात्--- देव ! दिनद्वयात् प्रभृति दृग् मे पीडाऽऽत्ता वर्तते / तदुपश्लोकायानुनयपरं पद्यमिदमपाठि- 15 षम् / इति प्रस्तावनां कृत्वा निक्षोभस्तयैव भङ्ग्या सद्यो व्याचचक्षे / तया प्रैज्ञया तुष्टोऽन्तः क्षितिपः, अकृत्यकरणदर्शनात् तु रुष्टः / सभ्रूभङ्ग भृत्यानूचे- बन्नीत रे अमुं कुकर्मकारिणं घातयत च / बद्धस्तैः / तदाकर्ण्य राजपुत्री द्वात्रिंशता सखीभिः शस्त्रिकापाणिभिः समं आगात् / राजदृष्टिमेत्य स्वयमकथयत्- यद्य, 20 मे मनोरुच्यं मुञ्चसे तदा चारु; अथ न मुञ्चसे तदा चतुस्त्रिंशद्धत्या भवितार:- एका दिगम्बरहत्या त्रयस्त्रिंशयुवतिहत्या इति / ततो राजा मन्त्रिभिर्विज्ञप्तः– देव ! त्वयैवेयमस्यासन्नीकृता / यूनां स्त्रीसन्निधानं च मन्मथद्रुमदोहदः / कस्य दोषो दीयते / चित्रस्था अपि चेतांसि, हरन्ति हरिणीदृशः / किं पुनस्ताः स्मरस्मेर-विभ्रमभ्रमितेक्षणाः / // 1 // - चररूपेण पश्यामि (1 / 3 शार्दूल।। 3 ख घ 'सूक्या' घ-पाणिरागात्' / .5 अनुषु /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy