SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [14 श्रीमदनकीर्तिचमत्कृतो राजा / स्थापितो दिगम्बरः सौधासनदेशे / राज्ञाऽsदिष्टम् - ग्रन्थमेकं कुरु अस्मत्पूर्वजवर्णनप्रतिबद्धम् / तेनोक्तम्देव ! अहं श्लोकपश्चशती एकस्मिन् दिने कर्तुं क्षमः, तावत् तु लेखितुं न क्षमोऽस्मि / कश्चिल्लेखकः समर्प्यताम् / राज्ञोक्तम्-अस्मत्पुत्री मदनमञ्जरी नाम लिखिष्यति जवनिकाऽन्तरिता सती / दिगम्बरेण अन्यं कर्तुमारेभे / राजपुत्री पञ्चशती लिखति / एवं कत्यप्यहानि ययुः / एकदा राजसुता तस्य स्वरं कोकिलरवजित्वरं शृण्वती सती चिन्तयति- अस्य रूपमपि सुन्दरं भविष्यति / जवनिकाऽन्तरि१० तया कथं दृश्यते ? / करोमि तावदुपायम् / रसवत्यां लवणबाहुल्यं कारयामि / 'सोऽपि राजपुत्री तादृग्विदुषीं सुस्वरां दिदृक्षते / लवणातिशये दिग्पट ऊचे-- अहो लवणिमा!। राजपुत्र्यभिदधे-- अहो निष्ठुरता।। एवमालापप्रत्यालापे दूरे कृता उभाभ्यां मर्यादामयी वनमयी च जवनिका / परस्परं दिव्यरूपदर्शनम् / तावता दिग्१५ वस्त्रेणोक्तम् निरर्थकं जन्मगतं नलिन्या, यया न दृष्टं तुहिनांशुबिम्बम् / राजसुतयाऽपि भणितम् उत्पत्तिरिन्दोरपि निष्फलैव, दृष्टा प्रबुद्धा नलिनी न येन // 1 // ततश्चक्षुः प्रीतिमुद्भवन्तीवाऽपराणि कुसमचापचापलानीति 20 वचनानिरर्गले मदने भग्नं कौमारव्रतं तयोः / वर्तते विकथा / अल्पो निष्पद्यते ग्रन्थः / सायं राजा विलोकयति शास्त्रम् / को हेतुरथ स्तोकं निष्पन्नम् ? / दिगम्बरस्तेषु त्रिचतुराणि विषमाणि पद्यानि निक्षिपते / ततो राजाऽग्रे भणति- देव ! ममेयं प्रतिज्ञा-अहमबुध्यमान स्य लेखितुः पार्थान्न लेखयामि / तव तु पुत्र्या इदं स्थानं कृच्छ्रेण 25 बुद्धम् / इति कालविलम्बाद् ग्रन्धाल्पत्वं जायते / राजेन्द्रो विमृ 1 घ-'करोम्युषायं तावत्' / 2 ग-'सोऽपि दिग्वस्त्रः राज.'। 3 लवणस्य भावः, पक्षान्तरे लावण्यम् / चन्द्रबिम्बम् / 5 क-'दृष्ट्वा' / 6 उपजातिः।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy