SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रवन्धकोशेस्यपराजये [14] // अथ मदनकीर्तप्रवन्धः // 'उज्जयिन्यां' विशालकीर्तिदिगम्बरः / तच्छिष्यो मदनकीर्तिः / स पूर्वपश्चिमोत्तरासु तिसृषु दिक्षु वादिनः सर्वान् विजिल्म 'महाप्रामाणिकचूडामाणि रिति बिरुदमुपाय॑ स्वगुर्वलकृता'मुज्ज- 5 यिनी'मागात् / गुरूनवन्दिष्ट / पूर्वमपि जनपरम्पराश्रुततत्कीर्तिः स मदनकीर्तिः भूयिष्ठमश्लाविष्ट / सोऽपि प्रामोदिष्ट / दिनकतिपयानन्तरं च गुरुं न्यगादीत्- भगवन् ! दाक्षिण्यात्यान् वादिनो विजेतुमीहे / तत्र गच्छामि ? / अनुज्ञा दीयताम् / गुरुणोक्तम्--- वास ! दक्षिणां मा गाः / स हि भोगनिधिर्देशः / को नाम तत्र 10 गतो दर्शन्यपि न तपसो भ्रश्येत् ? / तद् गुरुवचनं विलय विद्यामदामातो जालकुद्दालनिश्रेण्यादिभिः प्रभूतैश्च शिष्यैः परिकरितो 'महाराष्ट्रा' दिवादिनो मृद्नन् 'कर्णाट'देशमाप / तत्र 'विजयपुरे' कुन्तिभोज नाम राजानं स्वयं त्रैविधविदं विद्वत्प्रियं सदसि निषष्णं स द्वास्थनिवेदितो ददर्श तमुपश्लोकयामास--- देव ! त्वद्भुजदण्डदर्पगरिमाद्गारप्रतापानल___ ज्वालापवित्रमकीर्तिपारदघटीविस्फोटिनो बिन्दवः / शेषाहिः कति तारकाः कति कति क्षीराम्बुधिः कत्यपि पालेयाचल-शङ्ख-शुक्ति-करका-कर्पूर-कुन्देन्दवः / // 1 // कीर्तिः कैः कति कुन्तिभोज! भवतः स्ववाहिनीगाहिनी 20 दिक्पालान् परितः परीत्य दधती भास्वन्मयं गोलकम् / लखित्वाऽम्बुधिसप्तमण्डलभुवस्स्वय्येकपत्नीव्रत-- ख्यात्यै विष्णुपदं स्पृशत्यविरतं शेषाहिशीर्षाण्यपि // 2 // 1 घ-'परम्पराछूत०' / 2 तत्त्वज्ञानी। 3 हिमालयगिरिः / / शार्दूल० / 5 क्षारोदक-इक्षुरसोदक-सुरोदक-धृतोदक-दधि-मण्डोदक शुद्धोदक-क्षीरोदक नामानः सप्त समुद्राः / 6 क- ‘ख्यात्यैर्विष्णु०', घ-‘ख्यात्ये विष्णुः' / / 7 शार्दूल /
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy