SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः प्रबन्धकोशेत्यपरालये एवं अष्टोत्तरं शतं बहुकविदत्ताः पूरिताः समस्याः श्रीअमरेण / ततो राज्ञाऽभिहितम् --- सत्यं कविसार्वभौमः श्रीअमरः / तत्र दिने सन्ध्यावधि सभा निषण्णा स्थिता / राजा लचितः सभ्यलोकोऽपि / 'रसावशे हि कालो झैगच्छन्नपि न लक्ष्यते' / द्वितीयः दिने सद्यः काव्यमयैः प्रमाणोपन्यासैः प्रामाणिका 'जिताः / तृतीय- 5 दिने राज्ञा पृष्टम्- अस्माकं सम्प्रति का चिन्ताऽस्तीति कथ्यताम् / अमरेश भणितम्- देव ! कथं दूरं गताः स्वर्गे ऐरावणस्य दक्षिणकर्णे लुकिताः / भूपतिः स्वसंवादेऽमोदत, शिरोऽधुनोत् / निसं गमनागमने जिनधर्मासन्नः कृतो राजा चैत्येषु पूजाः कारयति / ___ एकदा नृपेण पृष्टम्-- भवतां कः कलागुरुः ? / अमरेण गदितम्- अरिसिंहः कविराज इति / तर्हि प्रातरत्रानेयः / अमरचन्द्रेणानीतः प्रातः कविराज उपराजम् / तदा राजा खड्गेन श्रमयन्नास्ते / राज्ञा पृष्टम् ---- अयं कविराजः / कविराजेन व्याजहे- ओमिति / राजाऽऽह--तर्हि वद कालोचितं किञ्चित् / 15 'अरिसिंहः कवयति त्वत्कृपाणविनिर्माण-शेषद्रव्येण वेधसा / कृतः कृतान्तः सर्पस्तु, करोद्वर्तनवर्तिभिः // 1 // 'अच्छाच्छाभ्यधिकार्पणं किमपि यः पाणेः कृपाणेर्गुणः सश्चक्राम स यद् ददौ धुपदवी प्रत्यर्थिषु मार्थिषु / त्वत्सङ्गान्न स बद्धमुष्टिरभवद् येनारिपृथ्वीभुजां पृष्ठेषु स्वमपि प्रकाममुदितः प्रोदामरोमोद्गमः // 2 // कलयसि किमिह कृपाणं, वीसल ! बलवन्ति शत्रुषु तृणानि / यानि मुखगानि तेषां, ने चैष लयितुमसमर्थः // 3 // " 1 'मोहितम्' / 2 ग-जाताः'। 3 घ. 'अमरसिंहकविः' / घ.-'अमरसिंहः'। 5 अनुष्टुप् / 6 ग-'अत्याभ्यधिका०' / 7 क- मतिप्रकाम' / . शार्दूल / 9 घ-तवैष / * आर्या / चतुर्विशति..
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy