SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिप्रवन्धे १२ मीहरिहरलोकः । राणकेश्वरेण बभणे--तर्हि पण्डित ! कथमेवं दूषितः सोमेश्वरः ।। हरिहर प्राभाषत-देव! राणेन्द्र ! पण्डितेन मय्यवज्ञा दधे तत्फलमिदं ददे । यतः प्रियं वा विप्रियं वाऽपि, सविशेषं परार्पितात् । ५ प्रत्यर्थयन्ति ये नैव, तेभ्यः साऽप्युर्वरा वरा ॥१॥ राणः प्राह -तस्त्वेवम् , परं मिथः सरस्वतीपुत्रयोः स्नेहो युक्तः । इत्युक्त्वा कण्ठग्रहणमकारयत् । स्थितो निष्कलङ्कः सोमेश्वरः । वर्तते नित्यमिष्टगोष्टी । हरिहरो नैषधकाव्यान्यक्सरोचितानि पठति । श्रीवस्तुपालः प्रीयते- अहो अश्रुतपूर्वाणि काव्यान्यमूनि ! । एकदाऽऽलाँपितः पण्डिसहरिहरः-कोऽयं प्रन्थः ? । पण्डितो वदति-नैषधं महाकाव्यम् । कः कविः । श्रीहर्षः । श्रीवस्तुपालेन गदितम् --तदादर्श दर्शय तर्हि । पण्डितो ब्रूतेनान्यत्रायं ग्रन्थः, चतुरो यामानर्पयिष्यामि पुस्तिकाम् । अर्पिता पुस्तिका । रात्रौ सयो लेखकनियोगिभिर्लेखिता नवीना पुस्तिका। १५ जीर्णरज्या(ज्ज्वा वृता । वासन्यासेन धूसरीकृत्य मुक्तौ । प्रातः पण्डिताय पुस्तिका दत्ता । गृह्यतां तदिदं खनैषधम् । गृहीता पण्डितेन पुस्तिका । मन्त्रिणा न्यगादि-अस्माकमपि कोशे किलास्तीवेदं शास्त्रमिति स्मरामः । विलोक्यतां कोशः । यावद् विलम्बेनैवं कृष्टा नवीना प्रतिः, यावच्छोध्यते तावत् "निपीय पस्य क्षितिरक्षिणः कथा" इत्यादि नैषधमुदघटिष्ट । दृष्ट्वा पण्डितहरिहरेणोक्तम्- "मन्त्रिन् ! तवैव मायेयम् । 'यदीदृशेषु कार्येषु-नान्यस्य क्रमते मतिः' । युक्तं त्वया दण्डिताः प्रतिपक्षाः, स्थापितानि जैन वैष्णव-शैवशासनानि, उदश्चितः स्वामिवंशः, यस्यैवं प्रज्ञा प्रकाशते । २५ अत्रान्तरे वीरधवलाहितसैन्यचम्पितेन महाराष्ट्र' प्रभुणा घ-राणेश्वरेण' । २ अनुष्टुप् । घ--'लापितो हरिहरः पण्डित(तः) । ब-या-'युक्ता'। ५ ग-'मन्त्रि (1) तवैव' । ग कम्पितेन' ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy