SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्ध कोशेत्यपराइये र्मा व्यजगुपत् । किमहं करोमि ! | मन्त्र्याह तमेव शरणं श्रय । यतः- ' भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलैः ' इति न्यायात् । पण्डितः- तर्हि मां नय । तथा कृतं मन्त्रिणा | पण्डितसोमेश्वरं बहिरासयित्वा मन्त्री स्वयं हरिहरा - न्तिकमगात् । बभाण च - पण्डितसोमेश्वरदेवस्तवान्तिकमागतोऽस्ति विज्ञीप्सुः । हसितो हरिहरः । आनीनयत् स्वसमीपम् । चकाराभ्युत्थाना-ऽऽलिङ्गन - महासनादिसत्कारम् । सोमेश्वरेणोक्तम्पण्डित ! निस्तारय मामस्मात् परकाव्यहरणकलङ्कपङ्कात् । यतः — १२३ आगतस्य निजगेहमप्यरे-गौरवं विदधते महाधियः । मीनमात्मसदनं समेयुषो, गीष्पतिर्व्यधित तुङ्गतां कवेः ॥१॥ तुष्ट हरिहरो भणति स्म - मास्म चिन्तां विधाः । पुनर्गौरवमारोपयिताऽस्मि त्वाम् । गतः स्वस्थानं मन्त्री सोमेश्वरश्च । प्रत्यूषे राणकसभाभरे सोमेश्वर आह्नायितः । प्रस्तावना चारब्धा । यथाजयति परमेश्वरी भारती यत्प्रसादादेवं मम शक्तिः । श्रीवस्तुपाले - १५ नोक्तम्- किं किम् ? । हरिहरः — देव ! मया 'काबे (वे?) री ' नदीतटे ' सारखत 'मन्त्रः साधितः । होमकाले गीर्देवी प्रत्यक्षाऽऽसीत् । वरं वृणीष्वेत्याह स्म । मया जगदे - जगदेकमातः ! यदि तुष्टाऽसि तदा एकदा भणितानां १०८ सङ्ख्यानां ऋचां षट्पदानां काव्यानां वस्तुकानां घेत्तानां दण्डकानां वाऽवधारणे समर्थो २० भूयासम् । देव्याचष्ट - तथाऽस्तु । ततः प्रभृति यो यदाह १०८ तत् तु ब्रुवे, यथेदं सोमेश्वरदेवोपज्ञ काव्याष्टोत्तरशतम् । राणकेनोकम् प्रत्ययः कार्यताम् । भाणितान्यष्टोत्तरशतानि तत्तच्छन्दसां प्रतिभाणितानि च हरिहरेण तानि । जातो निश्चयः पण्डित हरिहरवचने । क्षुत्तृष्णातपप्रभृति चिन्तानपेक्षः स्थितो २५ १ रथोद्धता' । २ घ ' घतानी' । १०
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy