SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये रुक्तम्- वयं निर्ममा निष्परिग्रहा धनादि न गृहीमः । अथ तवाल्याग्रह एव तर्हि महावीरप्रसादकारापणं दक्षिणाऽस्तु । कारितः प्रासादः । ओढरस्य जयताकेन सह सोदरत्वमिवासीत् । ___ एकदा पर्युषणे ओढरः सपरिवारश्चलितो जयताकेन समं देवगृहं प्रति । पुष्पाणि गृहीत्वा ओढरेण देवस्य पूजा कृता, ५ जयताको जजल्पे- इमानि पुष्पाणि मे गृहीत्वा पूजां कुरु । जयताको जगाद- पष्पाणि भवदीयानि, एभिः पूजायां कृतायां किं मे फलम् ? । 'विष्टिरेव केवला । केवलं ममापि पञ्च वराटका सन्ति । तत्पुष्पैः पूजयिष्यामि जिनेन्द्रम् । तथैव पूजितः । जयताको पुण्यमगण्यमुपार्जयत् । तत ओढर-जयताको गुरून् १० वन्दितुं जग्मतुः । उपवासः कृतो जयताकेन । द्वितीयदिने मुनि* यो दत्त्वा पारणं कृतम् । एवं पुण्याढ्यः सन् मृत्वा श्रीमूलराजवंशे तिहुअणपालदेवगृहे श्रीकुमारपालोऽभूत् । एवमुक्त्वा विरतासु देवीषु प्रभुभिः प्रोक्तम्- कोऽत्र प्रत्ययः ? । पुनर्देव्यः प्राहुः- उपराजं बदः नवलक्षतिलङ्गशृङ्गारनगरे 'उरङ्गले' मान- १५ वान् प्रेषय । अद्यापि ओढरस्य वंशीयाः सन्ति । तेषां दासी स्थिरदेवी जीर्णवृत्तान्तान् जानाति वक्ष्यति च । इदं श्रुत्वा विसृज्य गच्छन्ताभिर्देवीभिस्तत्रत्ये ओढेरगृहे लप्स्यमानानि निधानानि कथितानि । विज्ञाय 'पत्तने' राजान्तिकं गता प्रभवः । पृष्टं तत्र राज्ञा । तथैव राज्ञोऽने न्यगादि । नरप्रेषणात् सर्व ज्ञातम् । २० जिनधर्मे स्थैर्य जातम् । संह सिद्धसेनेनापि वैरकारणमुपलब्धम् । पूर्वभवे गर्भघातान्न सिद्धराजस्य पुत्रः । इति कुमारपालपूर्वभवः ।। ॥ इति हेमसूरिप्रबन्धः ॥ १०॥ १ ग-तर्हि धीमहा०।२ ग-'इमानि मे पुष्पाणि'1३ 'वेठ' इति भाषायाम् । ४ ग-वेष्ठिरव'। ५ स्व-'नवलक्षनषशृङ्गार', घनवलक्षतिलिङ्गः०१६ 'जूना इति भाषायाम् । ७ क-ख-'इत्युक्त्वा देव्यो गताः स्वस्वस्थानम् । पत्तने राजान्तिक' । ८ ग-'सह सिद्धेशेनापि । ग-'सन्तानम्' । .
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy