SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [ १० महेमचन्द्रसूरि 'मालव' देशं गतः । राज्ञा हृष्टेन पृष्टः- कथं कथं विग्रहः कृतः ? । वाणिज्यारकेणोक्तम्- खामिन् ! तत्पुरं प्रज्वालितम्, जयताको नष्टः, तत्पत्नी चटिता, सगर्भा इता । राज्ञेोक्तम्- त्वया न सुष्ठु कृतम् । इस्याद्वयं गृहीतम् । अद्रष्टव्यमुखस्त्वं ममान्तिकं त्यज । निष्कासितः । लोकनिन्दोच्छलिता । तपोवनं गत्वा तपस्विदीक्षा जगृहे । गाढं तपस्तप्वा मृत्वा च वाणिज्यारको जयसिंहदेवो जातः । जयताकस्तु स्थानभ्रंशं दृष्ट्वा देशान्तरं गतः । अटवीं गच्छतस्तस्य ' षण्डेर 'गच्छस्वामिनः श्रीयशोभद्रसूरयो मिलिताः । सूरिभिरमिहितम् — यद् भवतोऽधुना सर्व गतम्, किमर्थमन्यायं १० करोषि ? | जयताकेनो कम्— 'बुभुक्षितः किं न करोति पापम् ?' । ततः सर्वमकृत्थं करोमि । सूरिभिरुक्तम् -- अधुना शम्बलादिकं भोजनादि कारयिष्यते । अनयं मा कृथाः । भोजनवस्त्रादिकं कस्यापि पाद दापितम् । सार्थे हि तदादेशकारिणो बहवः चौर्यनियमं यावज्जीवं ग्राहिताः । स 'तिलङ्गेषु 'उरङ्गल' पुरे ओढर१५ वाणिज्यारकगृहे भोजनादिवृत्त्या भृत्योऽस्थात् । तत्र विहरन् यशो - भद्रसूरयः प्राप्ताः । चतुष्पथे मिलिता जयताकस्य । श्रावकैरुपाश्रयो दत्तः । जयताकेन तत्र गत्वा हृदयशुद्धया पुनश्चर्यनियमो गृहीतः अन्येऽपि बहवो 'ग्राहिता नियमाः । उत्सूरे ओढरगृहं गतः । ओढरेण पृष्टम् -- तव व वेला लैग्ना ? । त्वां विना २० कार्याणि सीदन्ति । तेनोक्तम् - मम गुरवः समागताः सन्ति 'तत्मकमलवन्दनानन्दमन्वभूवम् । नियमानग्रहीषम् । ओढरेणःपि समुत्पन्न श्रद्धेन व्याकृतम् — वयमपि गुरून् बन्दिष्यामहे । जयताकेनोक्तम् - पुण्यात् पुण्यमिदम् । ओढरस्तत्र गतः । गुरून् वन्दित्वा न्यवदत् । देशना श्रुता । तत्त्वज्ञानमुन्मीलितम् | श्रावकत्वं २५ गृहीतम् । पश्चाद् गुरुदक्षिणा गृह्यतामिति ओढरेणोक्ते सूरिभि । ११० ५ १ घ - शम्बलादि भोजनादि' । २ अनीतिम् । ३ ख ब ' तिलिङ्गेषु तुर० ४ ग 'नियमा गृहीताः । ५ ' लागी' इति भाषायाम् । ६ चरण० ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy