SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ प्रबन्धः ] प्रबन्धकोशेत्यपराये चौलुक्येन श्यामल ऊचे - कथमयं निवर्तते । श्यामलो गदति स्म - स्वामिन्! श्रीजयसिंहदेवे बिपन्न ३० दिनानि पादुकाभ्यां राज्यं कृतम् | 'मालवीय 'राजपुत्रेण चाहडकुमारेण राज्यं प्रधानपार्श्वे याचितम् । प्रधानैस्तु परवश्यत्वान्न दत्तम् । ततो रुष्ट्वा वाह आनाकसेवकः सञ्जातः । स भगदत्तनृपवन्महामात्रधुर्यः, अतुलबलः । तस्य सिंहनादेन कलहपश्चाननः क्षुभ्यन् पश्चानिवर्तते । किमत्र क्रियते न विद्म: । चौलुक्यस्तदाकर्ण्य द्विपटीं विदार्य फालिकद्वयेन द्वौ गजकर्णौ पूरयामास । ततश्चाहडसिंह - नादमाण्वन् कलहपञ्चाननः स्थिरतरः स्थिता गिरिवत् । वर्तते 'त्रिँशदायुधैर्युद्धम् । चमत्कृते द्वे अपि सैन्ये । उदासीनतया प्रथमं १० स्थिता 'चौलुकीया' चकम्पिरे भयेन अहो एकाङ्गमात्रस्यापि कुमारदेवस्यासमसमरसम्पल्लैम्पटत्वम् ! | सैन्ययोर्युद्धमपि निवृत्तम् । तावेव युध्येते । अत्रान्तरे चौलुक्यो विद्युदुत्क्षिप्तकैरणं दत्त्वा "आनाकगजपतिस्कन्ध मारूढः । क्षिप्तौ भुजौ राजोपरि । कसणकानि छुरिकया च्छिखा आनाकं सर्दञ्चकं च भूमौ पातयित्वा १५ योक्तृबन्धं क्षिपवा हृदि पादं दत्त्वा छुरी कराग्रे गृहीत्वा अवादीत् - रे वाघाट! मूढ ! निर्धर्मन् ! पिशाच ! स्मरसि मद्भगि न्यग्रे 'मारय मुण्डिकान्' इति वदिष्यसि । पूरयामि निजभगिनीप्रज्ञाम् । छिनतेि दुर्वाक्पङ्कदूषितां जिह्वाम् । इत्येवं वदति कृन्तदुष्प्रेक्ष्ये चौलुक्ये 'सपादलक्षीयः' किश्चिनोचख्यौ केवलं २० तरलतारकाभ्यां चक्षुभ्यिमद्राक्षीत् । चौलुक्योऽप्युत्पन्नलोकोत्तरकरुणापरिणामः प्राभाणीत् रे जाल्म ! मुक्तोऽसि, न भगिनीपतित्वेन, किन्तु कृपापात्रत्वेन । पूर्वं तव देशे टोपी बन्धाभागे जिह्निके " १०७ १ म ‘परवंशत्वान ं। ३ स्व - फालक० । ३ एतन्नामार्थ दृश्यतां पद्मानन्दमद्दाकाव्यस्य परिशिष्टं (पृ. ५८९ - ५९० ) । ग - 'प्रथम स्थिता-' । ५ ख-घ'हम्पट्टत्वम्' । ६ क - 'किरण' । ७ क ' आनक०' ८ 'दांची' इति भाषायाम् । ९ के घ- 'नाचख्यात्' । १० ग 'वन्धेऽप्र० ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy