SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ २०६ १० चतुर्विंशतिप्रबन्धे [१० श्रीमन्द्रसूरि एतं च तेषां मन्त्रं चौलुक्योऽद्यापि न वेत्ति । अतः प्राता राजा कुमारपालः कलहपश्चाननं पट्टहस्तिनं महामात्र श्यामलपार्श्वात् पुरः प्रेरयामास । तटस्थांस्तु चेष्टितैर्दुष्टान् निरणैषत् ि। नृपेण गदितः श्यामलः - किमर्थममी उदासीना इव दृश्यन्ते ? | श्यामलेन विज्ञप्तम् - देव! अरिकृतार्थदानादमी त्वयि द्रोहपराः सम्पन्नाः । राजाऽऽह -- तर्हि तब का चेष्टा ? । श्यामलोऽप्याललाप - देव ! एको देवः १, अपरोऽहम् २, अन्यस्तु कलहपश्चाननो हस्ती ३; एते त्रयः कदापि न परावर्त्यन्ते । नृपो बदति तर्हि सम्मुखीने दृश्यमाने शत्रुनृपमुद्गरधट्टे गजं प्रेरय । 1 साहसत्तर है वह ( चल ? )इ दैवह तणइ कपालि । खूटा विणू खीखड़ नही खेडिम ( डग ?) खूंटा टालि ॥ १॥ तदैव चारण एको न्यगादीत् ――――――――――― कुमारपाल ! मैन चिंत करि चिंति किंपि न होइ । जिणि तुदु रज्जु समप्पिं चित करिसंह सोइ ॥ १ ॥ १५ तत् तदीयं वचः श्रुत्वा सुशब्दं मन्यमानः पुरस्थे महाघट्टेऽदिशत् । नरसहस्त्रेण सह भञ्जन् घ्नन् गतो गजारूढः कुमारपाल आनाकगजान्तिके । आस्फालितो गजो गजेन । लग्नः करः करेण । आस्फालितौ दन्तौ दन्ताभ्याम् । एकदेहत्त्वमिव द्वयोरिभयेोरभूत् । प्रवृत्तं युद्ध नाराचैः । द्वावपि बलिष्ठौ महोत्साहो राजेभौ । तथापि २० कलहपश्चाननश्चीत्कारान् मुञ्चन् पुनः पुनः पश्चान्निवर्त्तते । तदा । २ साइसयुक्तेन हलं वह (चल) ति दैवस्थ कपाले । क्षुपान् विना स्तम्नाति न कर्षक ! क्षुपान् त्यक्त्वा ॥ इति दि. न. के. इ. ध्रुव इत्येभिः साक्षरवर्यैः सूचिताच्छाया । २ ध - 'इलु' ।। ३-४ घ' खंडा' । ५ ग - पुस्तके तु एवम्- 'खेडिम खूंटा टालि खूंटा विण खींसह नही । दैवहत कपालि साहस जुत्तइहलवलाई ॥ १ ॥ ६ छाया --- कुमारपाल ! मा चिन्तां कुरु चिन्तया किमपि न भवति । येन तुभ्यं राज्यं समर्पितं चिन्तां करिष्यति स एव ॥ ७ - 'मनि चिंत्य करि' ८ ग 'रज्ज' । ९ घ - सिइ सोइ' । १० लोड्मयवाणैः ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy