SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०८ चतुर्विंशतिप्रवन्धे १० श्रीहेमचन्द्रसूरि भासाताम् । कसा(शा)या जिह्वेति सज्ञा । अतःपरं जिह्वाबन्धः पश्चात् करणीयः, अवटोर्जिह्वाकर्षणप्रतिज्ञासिद्धिसूचकत्वात् । एवं श्रुते तथेति प्रतिपेदे आनाकः । बलवद्भिः सह का विरोधितेति न्यायात् । काष्ठपञ्जरे क्षिप्तः त्रिरात्रं स्वसैन्ये स्थापितः । जयातायानि घोषितानि । पश्चात् 'शाकम्भरी पतिर्विहितः । उत्खातप्रति'रोपितव्रताचार्यों हि तिहुअणपालदेवनन्दनः । गम्भीरतया स्वभटा नोपालब्धाः । त्यक्तजीवाशास्ते तं सेबन्ते । 'मेडतकं सप्तवारं भग्नम् । 'पल्लीकोट'स्थाने आर्दकमुप्तम् । ततः पठितं चारणेन "कुमारपाल रणहट्टि वलिउ कुकरि सइव वैहरणु । १० इक्कह पल्ली मट्टि बीसलक्सउ(१) झगडउ कियउ ।। इति चिरं तस्थौ स तत्र | श्रीहेमचन्द्रसूरयः सदैव सन्ति । पृष्टास्ते तेन-- भगवन् ! 'मालवीया' राजानो 'गूर्जरा'नागताः प्रासादान् पातयन्ति आत्मख्यातये। तदस्माकमकृत्यम् । केनो पायेनात्मख्याति कुर्मः ? । श्रीहेमसूरिपादैः प्रत्यपादि-राजेन्द्र ! १५ पाषाणमयानि तिलपेषणयन्त्राणि भञ्जय, पुण्यकार्तिलाभात् । भञ्जितास्ते तेन घाणकाः । अद्यापि भग्नाः पतिताः स्थाने दृश्यन्ते । ततो वक्ले परराष्ट्रमर्दनः चौलुक्यः । आयातः 'पत्तनम् । भग्नी भर्तृकुले प्रगन्तुमतत्वरत् । न तु सा गता अभिमानात् । तपस्तु तेपे । राजा 'स्तम्भन'पुरे यात्रां सूत्रयामास । २० तत्पुरं पार्श्वदेवाय ददौ । पुनः ‘पत्तन' मैत् । गृहीत-सपादलक्षा' धिपतिलेश्चाद्रव्यान् कुसेवकान् निगृह्य निश्चिन्तीभूतः श्रीकुमारपाल: श्रीहेमसूरिपादान् पर्युपास्ते, सामायिकपौषधादीन्याचरति । . एकदा पृष्टं राज्ञा- भगवन् ! इदमपि ज्ञायते यदहं पूर्वभवे -...-- -.. ...... ....... --.-- क-'प्रभुः' । २ ख-घ-रोपित्ताचार्यो' । ३ क-'मेदंत' । . ४ छाया- कुमारपालो रणहट्टे वलितः...... | एकस्य पल्ल्याः कृते ... ... कलहः पतिः ॥ ५.घ-'बहुरणु। ६ ग-- गुरुभिरुक्तम् । ७ 'पाणी' इति भाषायाम् । ८ ख-ग'भगिनी' । ५ लांच' इति भाषायाम् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy