SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ प्रबन्ध प्रबन्धकोशेस्यपराह्वये क्तम्-युक्तमेतत् । ततो बप्पमट्टिना 'सुराष्ट्रा'वास्तव्यानां श्वेताम्बरीयाणां दिगम्बरयिाणां च श्रावकाणां शतशः कन्यकाः पञ्चसप्तवार्षिक्यो 'मेलिताः । मिलिताः सभ्याः । बप्पभट्टिना अम्बादेवीपाश्र्थात् कथापितम्– यदि सर्वाः 'श्वेताम्बरश्रावककन्यकाः"उजित'सेलसिहरे दिक्खा नाणं निस्सी(सी)हिया जस्स। ५ तं धम्मचक्कट्टि अरिट्टनेमि नमसामि "॥१॥ इति गाथा पठिष्यन्ति तदा श्वेताम्बरीयं तीर्थम्, पक्षान्तरे तु दिगम्बरीयं तीर्थमिति । तत आनीता मुग्धबालिकाः । सर्वाभिः श्वेताम्बरपक्षश्रावकबालिकाभिः पठिता सा गाथा । अपरासु तु नैकयाऽपि । ततो जातं श्वेताम्बरसाद् 'रैवत'तीर्थम् । अम्बिकया १० स्वःस्थया पुष्पवृष्टिः श्वेताम्बरेषु कृता । ततो नष्ट्वा दिक्पटा 'महाराष्ट्रा'दिदक्षिणदेशानगमन् । राज्ञाऽन्यैरपि सर्वसधैश्चिरात् तत्र मिलितैर्नेमिर्नेमे । वित्तं ददे । 'प्रभासे' चन्द्रप्रभः प्रणेमे । बन्दिमोक्षः सर्वत्रापि कारितः। आमस्य भुक्तौ 'गूर्जरा दिदेशास्तदा तीर्यानां चिरं पूजोपयोगिनो हटाया याः(:) प्रक्लृप्ताः । एवं कार्याणि १५ कृत्वा ससूरिनॅपो गोपगिरिं' प्राविशत् । सङ्घपूजादिमहास्तत्र नवनवाः । प्राप्तप्राये काले दुन्दुको राज्ये प्रतिष्ठितः । आपृष्टः सः । लोकोऽपि क्षमितः । अनृणो देशः कृतः । सह सूरिणा नावाऽऽरूढो 'गङ्गा'सरित्तीरे तीर्थ 'मागधं' मतः । तत्र जले धूमं दृष्टवान् । तदा सूरीन्द्रमक्षमयत् । संसारमसारं विदन् अनशनमगृह्णात् । २० समाधिस्थः श्रीविक्रमकालात् अष्टशतवर्षेषु नवत्यधिकेषु व्यतीतेषु भाद्रपदे शुक्लपञ्चम्यां पञ्च परमेष्ठिनः स्मरन् राजा दिवमध्यष्ठात् । सूरयस्तत्त्वज्ञा अपि रुरुदुः । चिरप्रीतिमोहो दुर्जय एव । सेव १ स्व--मिलिताः' । १ श्वेताम्बरकन्यकाः'। ३ छाया---'उछयन्त शैलशिखरे दक्षिा ज्ञानं निषेधिका यस्य । तं धर्मचक्रवर्तिनमरिष्टनेमि नमस्यामि ॥ १ आर्या। ५ ग-'नष्टा' ।६ ग-प्राप्तकाले । ७ घ--'गङ्गां सह तोरे'। चतुर्विशति ११
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy