SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [९ श्रीमट्टिसूरि कास्तु चक्रन्दुः- हा शरणागतरक्षा वज्रकुमार ! हा राजस्थापनदाशरथे ! हा अश्वदमननल ! हा सत्यवागुयुधिष्ठिर ! हा हेमदानकर्ण ! हा मज्जा जैनत्व श्रेणिक ! हा सूरिसेवासम्प्रते ! हा अनृणीकरणविक्रमादित्य ! हा वीरविद्यः शातवाहन ! अस्मान् विहाय क्व गतोऽसि । दर्शयैकदाऽस्मभ्यमात्मानम् । मैकाकिनो मुञ्च । एवं विलपन्तस्ते सूरिभिः प्रतिबोधिताः -- भो भो सस्यं । दैवेन पापेन । 'आलब्धा कामधेनुः सरसकिशलयश्चन्दनवर्णितो हा छिन्नो मन्दारशाखी फलकुसुमभृतः खण्डितः कल्पवृक्षः । १० दग्धः कर्पूरखण्डो घनहतिदलिता मेघमाणिक्यमाला भग्नः कुम्भः सुधायाः कमलकुवलयः केलिहोमः कृतोऽयम् ॥ १ ॥ १ तथापि मा शोचत मा शोचत, यतः - पूर्वाह्णे प्रतिबोध्य पङ्कजवनान्युत्सार्य नैशं तमः कृत्वा चन्द्रमसं प्रकाशरहितं निस्तेजस तेजसा । १५ मध्याह्ने सरितां जलं विसृतैरापीय दीप्तैः करैः सायाहे रविरस्तमेति विवशः किं नाम शोच्यं भवेत् ॥ १ ॥ * इति लोकं निःशोकं कृत्वा लोकेन सह सूरि'र्गोप गिरि' मगात् । सूरिभिर्दुन्दुको राजा आमेन आमशोकेन जात्यमुक्ताफलस्थूलानि अश्रूण्युद्गरन् हिमम्लानपदी नवदनश्चिन्ताचान्तस्वान्तो बभाषे -- २० राजन् ! कोऽयं महतस्तव पितृशोकः ? । स हि चतुर्वर्गं संसाध्य कृतकृत्यो बभूव । यशोमयेन देहेन चाचन्द्र जीवन्नेवास्ते । पुण्यलक्ष्मीः कीर्तिलक्ष्मीश्चेति द्वे नरस्योपकारिण्यौ बल्लभे । पुण्यलक्ष्म्याश्च कीर्तेश्च, विचारयत चारुताम् । स्वामिना सह पात्येका, परा तिष्ठति पृष्ठतः ॥१॥ अन्योऽप्येवंविधः कोऽपि भवतु । इत्येवंविधाभिर्वाग्भिर्दुन्दुक २५ १ क- 'प्रबोधिताः । २ ख 'आलब्ध्वा । ३ स्रग्धरा । रात्रिसम्बन्धि ५ ग - 'प्रविशतै ० ' । ६ शार्दूल० । ७ अनुष्टुप् ।
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy