SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिप्रबन्धे [९ श्री भट्टसूरि राजाऽऽह- प्रतिज्ञातं मे न चलति । ततः सह सूरिणा आमो लक्षमेकं पृष्ठवाहा वृषभाः करभसहस्र २० हस्तिशत ७ अश्वलक्षमेकं पदातिलक्षत्रयं श्राद्धकुटुम्ब सहस्र २० सारसैन्यैर्द्वात्रिंशदुपवासैः 'रैवतका' याचालीत् । ' स्तम्भन 'तीर्थं यावद् गतः । तत्र ५ क्षुत्तापेन व्याकुलितोऽपि प्राणसन्देहं प्राप्तोऽपि नाहारमग्रहीत् / भीतो लोकः । खिन्नः सूरि : मन्त्रशक्त्या कूष्माण्डीदेवीं साक्षादानिनाय । तदग्रे कथयामास तत् कुरु येन राजा 'जेमति जीवति च । तद्वचनात् कूष्माण्डी बिम्बमेकं महच्छिरसा बिभ्रती गगनेन आमसविधं गता ऊचे च - वत्स ! साऽहमम्बिका । तव १० सत्त्वेन तुष्टा । गगने आगच्छन्तीं मां त्वं साक्षादद्राक्षीः । मयेदं I I 'रेवतै'कदेशभूतादवलेाकनाशिखरान्नेमिनाथबिम्बमानीतम् । इदं वन्दस्व । अस्मिन् वन्दिते मूलनेमिर्वन्दित एव । कुरु पारणकम् । सूरिभिरपि तत् समर्थितम् । लोकेनापि स्थापितम् । तद् वि वन्दित्वा राज्ञा ग्रासग्रहणं चक्रे । अद्यापि तद् बिम्बं ' स्तम्भ' तीर्थे १५ पूज्यते । 'उज्जयन्त' इति प्रसिद्धं तत् तीर्थम् । हृद्यातोद्यानि ध्यानयन्नामो 'विमलगिरौ' वृषभध्वजं सोत्सवं वन्दित्वा यावद् 'देवता' हिं गतः तावत् तत् तीर्थं दिगम्बरै रुद्धम्, श्वेताम्बरसङ्घः प्रवेष्टुं न लभते । आमेन तज्ज्ञातम् । ज्ञात्बोचे - युद्धं कृत्वा निषेद्धृन् हत्वा श्रीनेमि नंस्यामि । तावत् तत्र दिगम्बरभक्ता एकादश राजा२० नो मिलिताः । सर्वे युद्धैकतानाः । तदा बप्पभट्टिना भणित आम:- राजेन्द्र ! धर्मकार्ये पापारम्भः कथं क्रियते ! | लीलयैव तीर्थमिदमात्मसात्करिष्ये । भवद्भिः स्थिरैः स्थेयम् । एवं भूपं प्रबोध्य बप्पभडिरुपदिगम्बरमुपैतद्भक्तं भूपं च नरं प्राहिलाचभाणत् - इदं तीर्थं यस्याsम्बिका दत्ते तस्य पक्षस्य सत्कमिति मन्यध्वे । तैरुख-घ-'आमः सारसैन्ये रैवतक०' । २ 'जमे' इति भाषायाम् । ३ - 'तावता' ५ घ - 'हत्वा नेर्मि' । ६ घ 'राजन् ! ' । १ क ख - 'समर्पितम्' | ७ घ- 'तक्तभूपं ' । .
SR No.009522
Book TitleChaturvinshatiprabandha
Original Sutra AuthorN/A
AuthorRajshekharsuri, Hiralal R Kapadia
PublisherHarsiddhbhai Vajubhai Divetia
Publication Year1932
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy