SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अष्टापदमहातीर्थकल्पः । १८. अष्टापदमहातीर्थकल्पः । [ श्रीधर्मघोषसूरिकृतः । ] धर्मकीर्तिऋषभो विद्यानन्दाश्रितः पवित्रितवान् । देवेन्द्रवन्दितो यः स जयत्यष्टापद गिरीशः ॥ १ ॥ यस्मिन्नष्टापदभूदष्टापद मुख्यदोषलक्षहरः । अष्टापदाभ 'ऋषभः स जयत्यष्टापदगिरीशः ॥ २ ॥ ऋषभसुता नवनवतिर्बाहुबलिप्रभृतयः प्रवरयतयः । यस्मिन्नभजन्नमृतं स जयत्यष्टापदगिरीशः ॥ ३ ॥ अयुजन्निर्वृतियोगं वियोगभीरव इव प्रभोः समकम् । यत्रर्षिदशसहस्राः स जयत्यष्टापदगिरीशः || ४ || यत्राष्टपुत्रपुत्रा युगपद्वृषभेण ' नवनवतिपुत्राः । समयैकेन शिवमगुः स जयत्यष्टापदगिरीशः ॥ ५ ॥ रत्नत्रयमिव मूर्तं स्तूपत्रितयं चितित्रयस्थाने । यत्रास्थापयदिन्द्रः स जयत्यष्टापदगिरीशः ॥ ६ ॥ सिद्धायतनप्रतिमं सिंह्निषद्येति यत्र सुचतुर्द्धा । भरतोऽरचयच्चैत्यं स जयत्यष्टापदगिरीशः ॥ ७ ॥ यत्र विराजति चैत्यं योजनदीर्घं तदर्धपृथुमानम् । क्रोशत्रयोचमुचैः स जयत्यष्टापदगिरीशः ॥ ८ ॥ यत्र भ्रातृप्रतिमा "व्यधाच्चतुर्विंशति' जिनप्रतिमाः । भरतः सात्मप्रतिमाः स जयत्यष्टापदगिरीशः ॥ ९ ॥ *स्वस्वाकृतिमितिवर्णाङ्कवर्णितान् वर्तमानजिनबिम्बान् । भरतो वर्णितवानिह स जयत्यष्टापदगिरीशः ॥ १० ॥ सप्रतिमान्नवनवतिं बन्धुस्तूपांस्तथार्हतस्तूपम् । यत्रारचयच्चकी स जयत्यष्टापदगिरीशः ॥ ११ ॥ भरतेन मोहसिंहं हन्तुमिवाष्टापदः कृताष्ट्रपदः । शुशुभेऽष्टयोजनो यः स जयत्यष्टापदगिरीशः ॥ १२ ॥ यस्मिन्ननेककोट्यो महर्षयो भरतचक्रवर्त्याद्याः । सिद्धिं साधितवन्तः स जयत्यष्टापदगिरीशः ॥ १३ ॥ सगरसुताभे सर्वार्थ-शिवगतीन् भरतराजवंशर्षीन् । यत्र सुबुद्धिरकथयत्स जयत्यष्टापदगिरीशः ॥ १४ ॥ परिखासागरमकरन्त सागराः सागराशया यत्र । परितो रक्षति कृतये स जयत्यष्टापदगिरीशः ॥ १५ ॥ क्षालयितुमिव खैनो जैनो' यो गंगयाश्रितः परितः । सन्ततमुल्लोलकरैः स जयत्यष्टापदगिरीशः ॥ १६ ॥ यत्र जिनतिलकदानाद् दयमन्त्यपि " कृतानुरूपफलम् । भालखभावतिलकं स जयत्यष्टापदगिरीशः ॥ १७ ॥ यमकूप|रे कोपात् क्षिपन्नलं बालिनांहिणाऽऽक्रम्य । आरावि रावणोऽरं स जयत्यष्टापदगिरीशः ॥ १८ ॥ भुजतया जिनमहल्लङ्केन्द्रोऽवाप यत्र धरणेन्द्रात् । विजयामोघां शक्तिं स जयत्यष्टापदगिरीशः ॥ १९ ॥ "चतुरश्चतुरोऽष्टदश द्वौ चापाच्यादिदिक्षु जिनबिम्बान् । यत्रावन्दत " गणभृत् स जयत्यष्टापदगिरीशः ॥ २० ॥ अचलेऽत्रोदयमचलं खशक्तिवन्दितजिनो जनो" लभते । वीरोऽवर्णयदिति यं स जयत्यष्टापदगिरीशः ॥ २१ ॥ प्रभुभणितपुण्डरीकाध्ययनाध्ययनात् सुरोऽत्र दशमोऽभूत् । दशपूर्वि पुण्डरीकः स जयत्यष्टापदगिरीशः ॥ २२ ॥ यत्र " स्तुतजिननाथोऽदीक्षित तापसशतानि पञ्चदश । श्रीगौतम गणनाथः स जयत्यष्टापदगिरीशः ॥ २३ ॥ इत्यष्टापदपर्वत इव योऽष्टापदमयश्चिरस्थायी । व्यावर्णि महातीर्थं स जयत्यष्टापदगिरीशः ॥ २४ ॥ ॥ इति श्रीअष्टापद महातीर्थकल्पः समाप्तः । कृतिरियं श्रीधर्मघोषसूरीणाम् ॥ ॥ ग्रं० ३०, अ० २२ ॥ 1C Pb कीर्तिषभो । 2 C Pa "पदा ऋषभः । 6 B न्यधाच। 7 BC Pa चतुर्विंशतिं । 8 C वस्त्रा । 12 B गुणभृत् । 13 B Pb जिनो। 14 C स्तुजिन | 3 Pb योग्यं । 9 Pa जैनं । ३१ 4 Pb पदृषमेण । 5 Pa त्रयोर्द्धमुचैः । 10A B क्षतानु । 11 C चतुश्चतुरो । 5 10 15 20 25
SR No.009519
Book TitleVividh Tirth Kalpa
Original Sutra AuthorN/A
AuthorJinvijay
PublisherSinghi Jain Gyanpith
Publication Year1934
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari & Tirth
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy