SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ८० कारणत्रयतश्च स्युः प्रतिभावाः शुभा अपि । कर्ममान्द्यात् प्रयत्नेन चेतसः सन्निमित्ततः ॥७॥ निमित्ताद्धि शुभाद्भोगी भावमप्यशुभं भजेत् । अशुभाद्योगिनां भावा प्रजायन्ते शुभा अपि ॥८॥ योग्यतामनुसृत्यैवं जायन्ते प्रतिभावनाः । आर्द्रासु मृत्स्वपि बीजे प्ररोहः स्वगुणाश्रयः ॥९॥ निमित्तानां शुभानां वाऽशुभानामुपकर्तृता । मुख्यतां नादधात्यत्र मता कर्मोदयस्य सा ॥१०॥ कर्ममान्द्याय कर्तव्यः प्रयत्नः प्रथमो महान् । किं कुर्वन्ति निमित्तानि सत्सु मन्देषु कर्मसु ॥११॥ चेतसः शुभयत्नेन मन्दत्वं कर्मणां भवेत् । निमित्तैरुत्तमैः प्रायः शुभत्वं चेतसो भवेत् ॥१२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy