SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ ७८ प्रस्तावः चतुर्थः प्रतिभावा अनेके स्यु-विषयैरात्मनिर्मिताः । जानन्ति प्रतिभावेभ्योऽभिप्रायं धीधना निजम् ॥१॥ वस्तुतस्तु निरोद्धव्य-मभिप्रायप्रवर्तनम् । प्रतिभावावलोकेन तद्द्बोधस्सुकरो भवेत् ॥२॥ विषयैर्भावितं चेतो ददात्येव प्रतिक्रियाम् । संसिक्तो धृतधाराभिस्तपनः फूत्कृतिं यथा ॥३॥ अभिप्रायात्तथाऽर्थानां घटनाच्च वियुज्यते । जीवस्तदा न जायन्ते प्रतिभावा प्रतिक्रियाः ॥४॥ अभावः प्रतिभावानां परमाऽस्ति दशाऽऽत्मनः । समाधिर्वा विशुद्धिर्वा सिद्धिर्वेयं निरुच्यते ॥५॥ कारणत्रयतो दुष्टाः प्रतिभावा भवन्त्यमी । कर्मणामुदयात् पूर्व-संस्काराद् दुर्निमित्ततः ॥६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy