SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ७० अल्पं धर्मं प्रकुर्वाणो धर्मिणं मनुते निजम् । श्रीमन्तं कुरुते सोऽयं वित्तेनाल्पेन किं निजम् ॥८५॥ महानगरनिर्दाही दारुणो वह्निरुद्धतः । एककुम्भजलेनैव शीतलेन न शाम्यते ॥८६॥ तथैवाऽनादिसंसार-संस्कारा आत्मनिस्थिताः । अत्यल्पेनैव धर्मेण न क्षाल्यन्तेऽतिचिक्कणाः ॥८७॥ सम्भवे सति कर्तव्या धर्मवृद्धिर्निरन्तरम् । शक्तयः परिवर्धन्ते तासामेव प्रयोगतः ॥८८॥ अमोघं पुण्यबन्धानां कारणं धर्म उच्यते । विशुद्धाशयतः पुण्यं भवेत् पुण्यानुबन्धकम् ॥८९॥ कर्मणां निर्जराकारी धर्म एव निरुच्यते । सकामनिर्जराहेतुस्स ज्ञानपूर्वको भवेत् ॥९०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy