SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ६६ संस्काराः केवलं जीवभाव्यमानत्वसम्भवाः । आयास्यन्ति मया साकं तत् शुभान् वितनोम्यहम् ॥७३॥ शुभान्येव निमित्तानि यान्तु मे रागपात्रताम् । निमित्तान्यशुभान्यत्र मा यान्तु रागगोचरे ॥७४॥ एवं विचारयन्नात्मा धर्मप्रवृत्तिमाश्रितः । पृच्छति स्वयमात्मानं प्रश्नत्रयमनाविलम् ॥७५॥ क्रियते यो मया धर्मो देहवित्तादिसाधनैः । तस्मादभ्यधिकाचारे शक्तोऽस्मि वा न वा किमु ॥७६॥ धर्मायाऽभ्यधिकायाऽहं शक्तस्सन् तं करोमि चेत् । अस्ति कश्चन मे तत्र बाधको वापि वारकः ॥७७॥ मयि बाधादिकाऽभावे धर्माधिक्यविधायिनि । विपदस्स्युर्विभिन्नाः किं जीवितादेर्विनाशिकाः ॥७८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy