SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ज्ञातव्ये ज्ञातवत्यत्र मोहनीयं प्रवर्तते । ततोऽभिप्रायनिर्माणं संवित्त्यात्मकमुत्कटम् ॥१३॥ अनुकूलं ममाऽस्त्येतद् नानुकूलं ममास्त्यदः । इत्थं सकर्मजीवस्य जायते ऽन्यतमं मनः ॥१४॥ अभिप्रायोऽस्ति जीवस्थो न चायं विषयस्थितः । विषयादेव संजातो विषयात् स विभिद्यते ॥१५॥ यथा पटावृता दृष्टि-र्जायेतान्धत्वभाजनम् । अन्धत्वं न पटे किन्तु पटादेवोपपद्यते ॥१६॥ तथा विषयसम्पर्का-दभिप्रायेण विह्वलः । जीवस्स्याद्विषयेष्वत्र तथापि नास्ति चेतना ॥१७॥ स्त्र्यादिविषयसम्पर्को यद्यप्यस्ति सचेतनः । अभिप्रायस्स्वकीयस्तु नान्यस्मिन्ननुभूयते ॥१८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy