SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ ३० निमित्तजप्रभावस्याऽभिव्यक्तिर्भवति द्विधा । निरुक्ता सा क्रमेणैवं प्रतिभावः प्रतिक्रिया ॥१३॥ संवेदनं निमित्तोत्थं प्रभाव इति कथ्यते । अयं ह्यनुभवो किंवा ऽनुभूतिर्गण्यते बुधैः ॥१४॥ परिणामश्च तज्जन्यः प्रतिभावो निगद्यते । तस्मान्निर्मापिता वाणी प्रवृत्तिश्च प्रतिक्रिया ॥१५॥ प्रतिक्रियेति शब्दस्य विरोधार्थत्वमत्र न । कुतश्चिदुत्थितत्वं हि तद्वाच्यत्वं विवक्षया ॥१६॥ निमित्तस्यानुसारित्व - मुभयोरेव दृश्यते । प्रतिभावा न दृश्यन्ते दृश्यन्ते तु प्रतिक्रियाः ॥१७॥ नूनमेकेन्द्रियत्वेन स्थावराणां प्रतिक्रियाः । न भवन्ति तथाप्यत्र सन्त्येव प्रतिभावनाः ॥ १८ ॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy