SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ संस्कारोऽनेकरूपो हि मनोयोगोऽस्ति तत्त्वतः । निमित्तवशवर्तित्वं तस्यास्ति दुःखकारणम् ॥५५॥ यथा वातादिवैषम्याद् देहे रोगः प्रजायते । एवं हि कर्मसांगत्या-दात्मा संस्कारभाजनम् ॥५६॥ रोगस्योपशमं कृत्वा वैषम्यं वारयेत् सुधीः । संस्काराणां जयं कृत्वा कर्म निर्वारयेत् कृती ॥५७॥ द्रव्यं क्षेत्रं च कालं च भवं भावं च संश्रितः । कर्मणामुदयो भूयः कर्मानुबन्धकारणम् ॥५८॥ द्रव्याद्यैः प्रेरितं कर्म विनिर्माति विचारणाम् । निमित्तेनैव निष्पन्नां नूनं कर्मानुवर्तिनीम् ॥५९॥ अशुभानां निमित्तानां सातत्यादात्मना भवे । भावा ये येऽनुभूतास्तेऽप्यशुभा गणनातिगाः ॥६०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy