SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ विचारैः कर्मणां बन्धो बर्द्धस्तैश्च विचारणा । अन्योऽन्याश्रयसम्बन्धा-देवं भूयो भवभ्रमः ॥१३॥ अपूर्वकरणादाद्या-दात्माऽयं कर्मबाधिकाम् । उत्तमां भावनां चित्ते धारयत्यात्मशोधिकाम् ॥१४॥ रागद्वेषौ कथं मे स्तः तदारम्भः कुतोऽभवत् । ततोऽनर्थाः कियन्तः स्युः तन्नाशश्च कथं भवेत् ? ॥१५॥ रागद्वेषवशीभूताऽवस्था किं सौख्यकारणम् । अथवा तद्विसर्गेण वास्तवस्स्यात्सुखोद्गम: ? ॥१६॥ रागद्वेषस्वरूपोऽहं ताभ्यां भिन्नोऽस्मि वा किमु । दुःखानामागमस्सर्वो मय्ययं किन्निबन्धनः ? ॥१७॥ तद्भिन्नोऽस्मि ततः किं तौ लग्नौ मां भूतचारिणौ । नूनं रागादितोऽन्योऽस्ति कश्चिन् मार्गः सुखावहः ॥१८॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy