SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ४ पूर्वबद्धापहारोऽपि धर्मस्यास्ति प्रयोजनम् । नैर्बल्यं बध्यमानानां कर्मणां धर्मतो भवेत् ॥७॥ कर्मणामनुबन्धाख्यां पारम्पर्यविधायिनीम् । शक्तिं च धर्मसातत्यात् करोति शिथिलां कृती ॥८॥ काययोगो वचोयोगः कर्मणा योऽपि जायते । तत्र धर्मप्रभावेण शुभत्वस्थापना भवेत् ॥९॥ केवलं यो मनोयोगस्तीव्रकर्मवशंवदः । तत्र सद्धर्मसंस्कारैः कर्तव्या प्रतिपालना ॥१०॥ श्रीसंवेगरतिग्रन्थः शुद्धभावविधायकः । मनोयोगामलीकार - कारणं तन्निरुच्यते ॥११॥ विचाराणामसंख्याना-मुत्थानं मोहनीयतः । निर्विवेकं यथाच्छन्दं भवेत् संसारवर्धकम् ॥१२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy