SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ २ प्रथमः प्रस्तावः आत्मनः कर्मणा योगः संसारो वास्तवो मतः । एतद्योगविनाशाय धर्मो दिष्टो जिनेश्वरैः ॥१॥ आत्माऽयं वर्ततेऽनादिः कर्मयोगोऽप्यनादिमान् । आत्माऽनन्तो कर्मयोगेऽनन्तता वाऽपि सान्तता ॥२॥ अधर्मापन्नवृत्तीनां कर्मयोगो निरन्तकः । सान्तस्तु कर्मसंयोगो धर्मसंपन्नचेतसाम् ॥३॥ कर्मयोगो दृढो येन तमधर्मं प्रचक्षते । कर्मयोगः श्लथो येन तं सद्धर्मं जगुर्जिनाः ॥४॥ कर्मणामुदयावस्था संसार: सांप्रतो मतः । कर्मणामात्मनि-स्थत्वं तस्याः कारणमुच्यते ॥५॥ आत्मना बध्यमानत्वं कर्मणां चास्य कारणम् । तद्बन्धस्यावरोधाय मुख्यो धर्मो विधीयते ॥६॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy