SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ १०६ समाधानमिदं ज्ञेयं सावधानैस्समासतः । मोहनीयोदयो दुःखं तदभावः सुखं मतम् ॥७॥ मोहनीयानुवेधेन सौख्यं यदपि जायते । बालानां मृत्तिकास्वाद - तुल्यत्वात्तन्न गण्यते ॥८॥ कर्मोदयानुविद्धत्वाद् विकृतां बोधपद्धतिम् । आत्मा संश्रितवान् तस्यास्सुखं दुःखं च जायते ॥९॥ मोहनीयांश एवास्ति दुःखं रोगस्तनाविव । स्वस्मादन्यस्वरूपेऽपि स्व-स्वरूपेण भासते ॥ १० ॥ चेतनायाः समुल्लासस्सुखस्यानुभवे भवेत् । चेतनायाश्च संकोचो दुःखस्यानुभवे भवेत् ॥११॥ चेतना स्थिरतां प्राप्ता कर्मणां विगमे सति । आत्मनो मूलरूपेण शुद्धं सौख्यं निगद्यते ॥१२॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy