SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पञ्चमः प्रस्तावः मतिज्ञान-श्रुतज्ञान-मोहनीय-प्रवर्तितम् । सुखं दुःखं च तन्नाशात्-तयोरपगमो भवेत् ॥१॥ अपूर्णे हि मतिज्ञान-श्रुतज्ञाने स्वभावतः । तयोरेवोत्थितो बोधोऽपूर्णः सौख्यादिको न किम् ॥२॥ केवलज्ञानलाभेन विघटेते मतिश्रुते । मोहनीयापहारेण सौख्यदुःखवियोजना ॥३॥ यावन्मत्यादिकं तावद् न ज्ञानं पूर्णमाप्यते । यावन्मोहोदयस्तावत् सुखं पूर्णं न लभ्यते ॥४॥ ननु सौख्यं च दुःखं च ज्ञानस्यानुभवद्वयम् । मोहनीयापहारे तु सौख्यमेवोपजायते ॥५॥ दुःखरूपस्य बोधस्य यत्राभावोऽस्ति चेतने । तत्र ज्ञानस्य पूर्णत्वं कथं नाम निगद्यते ॥६॥ युग्मम् १०४ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy