SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ क्रियमाणा क्रिया प्रायश्चेतसा सह जायते । ततः संस्कारनिर्माणं सततासेवनाद् भवेत् ॥५५॥ मनोरथः सुकार्याणां स्वीयशक्त्याः परीक्षणम् । करणे निर्णयः कार्ये हर्षः स्मृत्यामनुस्थितिः ॥५६॥ इति प्रत्येककार्येषु पंचधा यः प्रवर्तते । तस्य सद्धर्मसंस्कारैः चेतना वासिता भवेत् ॥५७॥ युग्मम् ज्ञानस्य दर्शनस्यैवं चरित्र-तपसोः शुभा । क्रियैवाऽस्ति सदाचारो वीर्याचारोपबंहिता ॥५८॥ नित्यो नैमित्तिकश्चेति द्विधाऽऽचार: समुच्यते । तं तं कुर्वन् यथायोग्यं धर्मात्मा संस्कृतो भवेत् ॥५९॥ श्रीमतामहतां बिम्बं निर्ग्रन्थो भगवान् गुरुः । शुभं कल्याणमित्रं च कातैः शुभसंगतिः ॥६०॥ श्रीसंवेगरतिः
SR No.009509
Book TitleSamvegrati
Original Sutra AuthorN/A
AuthorPrashamrativijay, Kamleshkumar Jain
PublisherKashi Hindu Vishwavidyalaya
Publication Year2009
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy