________________
मिशीथो
सूत्रम् — जे भिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसइयं वा सयमेव परिघट्टेइ वा संठवेइ वा जमावेइ वा परिघट्टेत वा संवेत वा जमावे वा साइज्जइ ॥ सू० २६ ॥
५०
छाया - यो भिक्षुः दण्डकं घा यटिकां वा अवलेहनिकां वा वेणुसूचिकां धा, स्वयमेव परिघट्टयति वा संस्थापयति वा यमयति वा, परिघट्टयन्तं वा संस्थापयन्तं वा यमयन्तं वा स्वदते ॥ सू० २६ ॥
"
चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'दंडयं वा' दंडकं वा दण्डः- रजोहरणसम्बन्धी तम् 'लट्ठियं चा' यष्टिकां वा- लघुदण्डं 'अवलेहणिय वा' = अवलेहनिकां वा - कर्दमावगुण्ठितचरणे तदपनयनाय शलाका विशेषस्ताम् 'वेणुसूइयं वा' वेणुसूचिकां वावेणुवंशस्तन्मयी सूची ताम्, 'सयमेव परिघट्टे' स्वयमेव परिघट्टयति, परिघट्टनं निर्माणम् तथाचदण्डादीनां निर्माणं करोतीत्यर्थः । 'संठवेइ वा' संस्थापयति दण्डादिकस्य हस्तिमुख सिंहमुखादीनां निर्माणं करोति । 'जमावेइ वा' यमयति वकदण्डादीन् ऋजून् करोति । 'परितं वा'' परिघट्टयन्तं - निर्माणं कुर्वन्तम् 'सठवेंतं वा' संस्थापयन्तम्, 'जमावेतं वा' यमयन्तं वक्रं ऋजुं कुर्वन्तम् ' साइज्जड़' स्वदतेऽनुमोदते स प्रायश्चित्तभाग्भवति ॥ सू० २६ ॥
सूत्रम् — जे भिक्खू णियगगवेसियं पडिग्गहं धरेइ धरेंतं वा साइज्जइ ॥ सू० २७ ॥
छाया - यो भिक्षुर्निजकगवेपितं प्रतिग्रहं धरति धरन्तं वा स्वदते ॥ सू० २७ ॥ चूर्णिः - 'जे भिक्खू' इत्यादि । 'जे भिक्खु' यो भिक्षुः 'णियगगवेसियं' निजकगवेपितम्, निजकः स्वजनः सांसारिको मातृ-पितृ--बन्धु बान्धवादिः तेनाऽन्विप्यानीतम् 'पडिग्गहं' प्रतिग्रहं - पात्रम् 'घरे' घरति पार्श्वे स्थापयति गृह्णाति । 'धरेतं वा साइज्जइ' घरन्तं पार्थे स्थापयन्तमन्यं स्वदतेऽनुमोदते स प्रायश्चितभाग्भवति ॥ सू० २७ ॥
1
सूत्रम् - जे भिक्खू परगवेसियं पडिग्गहं धरेइ धरेंतं वा साइज्जइ ॥ सू० २८ ॥
छाया -यो भिक्षु परगवेपितं प्रतिग्रह धरति, धरन्तं वा स्वदते ॥ सू० २८|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि पूर्ववत् । नवरम् - 'परगवेसियं' परगवेपितम्, तत्र - परोऽन्यः स्वजनातिरिक्तः सामान्यगृहस्थः विसंभोगी संयतो वा, तेन गवेपितमन्विष्यानीतम् ॥ सू० २८ ॥