________________
पूर्णिभाष्यावचूरिः उ० २ सू० २५-२६ पात्रदण्डकादीनां परिघट्टनादिनिषेधः ४९
ननु-अभिन्नवस्त्रधारणे को दोपस्तत्राह भाष्यकार:-'अभिण्ण.' इत्यादि । भाष्यम्-अभिण्णवत्थजुत्तस्स, भवे चोरभयाइयं ।
पडिलेहणवाधाइ, संजमत्तविराहणं ॥ छाया-अभिन्नवस्त्रयुक्तस्य भवेच्चौरभयादिकम् ।
प्रतिलेखनवाधादि संयमात्मविराधनम् ॥ अवचूरिः-अभिन्नवस्त्रयुक्तस्य साधोः चौरभयम् , चौरो हि-अभिन्नवस्त्रं दृष्ट्वा तल्लोभात्-चोरयितुमागच्छेत् , मारयेदपि कदाचित्साधुमित्यात्मविराधनासंभवः । तथा-तादृशविपुलवस्त्रस्य सम्यक् प्रतिलेखनमपि न संभवतीति तदकरणजनितोऽपि दोषः। प्रतिलेखनाचकरणे संयमबिराधनं स्यात् , अतः साधुभिरभिन्नवस्त्रं न धारणीयम् || सू० २४ ॥
सूत्रम्-जे भिक्खू लाउपायं वा दारुपायं वा मट्टियापायं वा सयमेव परिघट्टेइ वा संठवेइ वा जमावेइ वा परिघटेंते वा संठवेतं वा जमावंतं वा साइज्जइ ॥ सू० २५॥
छाया-यो भिक्षुः अलावूपात्रं वा दारुपात्रं वा मृत्तिकापात्रं वा स्वयमेव परिघयति वा संस्थापयति वा 'जमावेइ' इति यमयति वा परिघट्टयन्तं वा संस्थापयन्तं वा यमयन्तं वा स्वदते ॥ सू० २५ ॥
चूर्णि:- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः 'लाउपायं वा' अलाबूपात्रं वा 'तुम्बा' इति लोकप्रसिद्धम् 'दारुपायं वा' काष्ठपात्रं वा, 'मट्टियापायं वा मृत्तिकापात्रं वा 'सयमेव परिघटेइ' स्वयमेव परिघट्टयति-निर्माति । 'संठवेइ वा संस्थापयतितत्र-संस्थानमवयव विशेषः मुखादिकं पात्रस्य करोतीत्यर्थः । 'जमावेइ वा यमयति-विषम समं करोति, तथाच-पात्राणां विषमभागं समीकरोतीत्यर्थः । तथा-'परिघटेतं वा' परिघदृयन्तं वा-निर्माणं कुर्वन्तं वा 'संठवेंतं वा' संस्थापयन्तं वा, 'जमातं वा' यमयन्तं वा, विशेषतो विषमभागस्य समतां कुर्वन्तं वा 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ।
तत्र-पूर्वघट्टितादिपात्राणां ग्रहण कल्पते, तत्र--त्रिविधमपि पात्रं बहुकर्मिताऽल्पकमिताऽपरिकर्मितभेदात् त्रिप्रकारकं भवतीति प्रकृतसूत्रविषये प्रथमोदेशके--एव व्याख्यान कृतं तत एव द्रष्टव्यम् । विशेषस्तु केवलमेतावानेव यत् प्रथमोद्देशके परकृतं निषिद्धम् , अत्र तु स्वयंकरणस्य निषेध इति ॥ सू० २५ ॥