________________
चर्णिभाष्यावचूरिः उ० २ सू० २७-३१
निजकादिगवेपितपात्रधारणनिषेधः ५१ .
सूत्रम्-जे भिक्खू वरगवेसियं पडिग्गहं धरेइ धरेतं वा साइज्जइ ॥ छाया-यो भिक्षुर्वरंगवेषितं प्रतिग्रहं धरति धरन्तं वा स्वदते ॥ सू० २९॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे विभखू' यो भिक्षुरित्यादि पूर्ववत् । नवरम्-'वरगवेसियं' वरगवेषितम् । तत्र-वरो नाम ग्राम प्रधानः पुरुपस्तेन गवेषितमन्विष्यानोतम् ॥ सू० २९॥
संप्रति वरशब्दार्थमाह भाष्यकारः-- 'जो जत्थ' इत्यादि । भाष्यम् -जो जत्थ माणणिज्जो य, गामाइम्मि महत्तरो ।
पामाणिओ पहाणो सो, वरो तत्थ पउज्जइ ।। छाया-यो यत्र माननीयथ ग्रामादौ महत्तरः ।
प्रामाणिकः प्रधानः स वरस्तत्र प्रयुज्यते ॥ अवचूरिः-यः पुरुषो यत्र ग्रामादौ नगरादौ लोकैर्नागरिकैः संमानितो नागरादिपु मुख्यः प्रामाणिकः प्रधानश्च, तत्र वरशब्दः प्रयुज्यते । तेनानीतं पात्रादिकं गृह्णतो ग्राहयतः गृह्णन्तमनुमोदमानस्याऽऽधाकर्मिकादिमिथ्यात्वाऽऽमविराधनसंयमविराधनादयो दोषा भवन्ति ।। सू० २९॥ • सूत्रम्-जे भिक्खू बलगवेसियं पडिग्गहंधरेइ धरतं वा साइज्जइ ।
छाया--यो भिक्षुर्चलगवेपितं प्रतिमहं धरति धरन्तं वा स्वदते ॥ सू० ३० ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुरित्यादि पूर्ववत् । नवरम्'बलगवेसिय' बलगवेषितम् । वलवता-शरीरजनपदादिवलविशिष्टेन पुरुपेण गवेपितमन्विप्यानीतम् ॥ सू० ३० ॥ भाष्यम्-जस्सोवरि पहू जो उ, बलड्ढो वा भवे अवि ।
बलवंतो सो चिन्नेओ, घरसामी जहा मओ॥ छाया-यस्योपरि प्रभुर्यस्तु वलाढयो वा भवेदपि ।
बलवान् स विज्ञेयो गृहस्वामी यथा मतः ॥ अवचूरिः-'जस्सोवरि' इत्यादि । यः पुरुषो यस्योपरि प्रभुत्व-स्वकीय प्रभाव करोति, तथा बलाढयः वलेन-शरीरादिवलेन समृद्धो भवेत् स बलवान् विज्ञेयः । तत्र दृष्टान्तं दर्शयति-'घरसामी' इत्यादि । यथा-येन प्रकारेण गृहस्वामी स्वकीयपरिवारोपरि प्रभुत्वं कुर्वन् परीवारे बलवान् भवति, यथा वा-शरीरबलेनोर्जितः सिंहो वनपशुं प्रति बलं दर्शयन् बलवान् कथ्यते, यथा वा कश्चिद्विद्वान् सामान्यजनं प्रति स्वविद्यावलं दर्शयन् प्रभुर्बलवान् इति कथ्यते ।
यद्वा-कश्चिदप्रभुरपि-अबलोऽपि बलवान् भवति-यथा गृहस्वामी, न तादृशः प्रभुः किन्तु स्वपरिवारे बलवानिति कथ्यते, एतादृशवलवता पुरुषेणाऽन्विप्यानीतं पात्रं यो भिक्षुर्धरति, धरन्तं वाऽनुमोदते स प्रायश्चित्तभाग् भवति तथा तस्याज्ञाभङ्गानवस्थामिथ्यात्वसंयमात्मविराधनादयो दोषा भवन्तीति ।। सू० ३० ॥