SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीः॥ जैनागमवारिधि-जैनधर्मदिवाकर-जैनाचार्य-पूज्य-श्री आत्मारामजीमहाराजनां पञ्चनद-(पंजाव )स्थानामनुत्तरोपपातिकसूत्राणा मर्थबोधिनीनामकटीकायामिदम् सम्मतिपत्रम्. आचार्यवर्यैः श्री घासीलालमुनिभिः सङ्कलिता अनुत्तरोपपातिकमूत्राणामर्थवोधिनीनाम्नी संस्कृतवृत्तिरुपयोगपूर्वकं सकलाऽपि स्वशिष्यमुखेनाऽश्रावि मया, इयं हि वृत्तिर्मुनिवरस्य वैदुष्यं प्रकटयति । श्रीमद्भिर्मुनिभिः सूत्राणामर्थान् स्पष्टयितुं यः प्रयत्नो व्यधायि तदर्थमनेकसो धन्यवादानहन्ति ते । यथा चेयं वृत्तिः सरला सुबोधिनी च तथा सारवत्यपि । अस्याः स्वाध्यायेन निर्वाणपदममीप्सुभिनिर्वाणपदमनुसरद्भिर्ज्ञान--दर्शन-चारित्रेषु प्रयतमानैर्मुनिभिः थावकैश्च ज्ञानदर्शन-चारित्राणि सम्यक् सम्पाप्याऽन्येऽप्यात्मानस्तत्र प्रवर्तयिष्यन्ते । ___आशासे श्रीमदाशुकविर्मुनिवरो गीर्वाणवाणीजुपां विदुपां मनस्तोपाय जैनागमसूत्राणां साराववोधाय च अन्येपामपि जैनागमानामित्थं सरलाः सुस्पष्टाश्च वृत्तीविधाय तांस्तान् सूत्रग्रन्थान् देवगिरा सुस्पष्टयिष्यति । अन्ते च "मुनिवरस्य परिश्रमं सफलयितुं सरलां सुबोधिनी चेमां सूत्रवृत्तिं स्वाध्यायेन सनाथयिष्यन्त्यवश्यं सुयोग्या हंसनिभाः पाठकाः।" इत्याशास्तेविक्रमाव्द २००२ । श्रावणकृप्णा प्रतिपदा उपाध्याय आत्मारामो जैनमुनिः। लुधियाना. एसेही :___ मध्यभारत सैलाना-निवासी श्रीमान् रतनलालजी डेसी श्रमणोपासक जैन लिखते हैं किः श्रीमान की की हुई टीकावाला उपासकदशांग सेवक के दृष्टिगत हुवा, सेवक अभी उसका मनन कर रहा है य ग्रन्थ सर्वांगसुन्दर एवम् उच्चकोटि का उपकारक है।
SR No.009332
Book TitleAntkruddashanga Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1958
Total Pages392
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_antkrutdasha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy