SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ भगवती सूत्रे गुरुकत्वं शीघ्रमागच्छन्ति, एवं यथा प्रथमशतके यावत् व्यतिव्रजन्ति । भवसिद्धिकत्वं खलु भदन्त ! जीवानां किं स्वभावतः परिणामतः, ? जयन्ती ! सर्वेऽपि खलु भवसिद्धिकाः जीवाः सेत्स्यन्ति । यदि भदन्त ! सर्वे भवसिद्धिकाः जीवाः सेत्स्यन्ति तदा खलु भवसिद्धिकविरहितो लोको भविष्यति ? नायमर्थः समर्थः, तत् केन 'पुनः खलु अर्थेन भदन्त ! एवमुच्यते सर्वेऽपि खलु भवसिद्धिकाः जीवाः सेत्स्यन्ति, नो चैव खलु भवसिद्धिकविरहितो लोको भविष्यति ? जयन्ति ! तत् यथानाम सर्वाकाशश्रे गीस्यात्, अनादिका अनवद्या परीक्षा (परिमिता ) परिवृता, सा खलु परमाणुपुद्गलमात्रैः खण्डैः समये समये अपहियमाणा अपहियमाणा अनन्ताभिः उत्सर्पिण्यवसर्पिणीभिः अपह्रियते, नो चैत्र खलु अपहता रयात्, तत् तेनार्थेन जयन्ति । एवमुच्यते - सर्वेऽपि खलु भवसिद्धिकाः जीवाः सेत्स्यन्ति, नो चैव खलु भवसिद्धिकविरहितो लोको भविष्यति । सुप्तत्वं भदन्त | साधु, जागरिकत्वं साधु ? जयन्ति ! अस्त्येकेषां जीवानां सुप्तत्वं साधु, अरत्येकेषां जीवानां जागरिकत्व साधु, तत्केनार्थेन भदन्त । एवमुच्यते अस्त्येकेषां यावत् साधु ? जयन्ति । ये इमे जीवाः अधार्मिकाः, अधर्मानुगाः, अधर्मिष्ठाः, अधर्माख्यायिनः, अधर्मप्रलोकिनः, अधर्मपरञ्जनाः, अधर्मसमुदाचाराः, अधर्मेणैव वृत्तिं कल्पयन्तो विहरन्ति एतेषां खलु जीवानां सुप्तत्वं साधु, एते खलु जीवाः सुप्ताः, सन्तो नो बहूनां प्राणभूतजीवसत्त्वानां दुःखापनायैव, यावत् परितापनार्थे वर्तन्ते, एते, खलु जीवाः सुप्ताः सन्तः आत्मानं वा, परं वा, तदुभयं वा, नो वहीभिः अधा, सिंकीभिः संयोजनाभिः संयोजयितारो भवन्ति, एतेषां जीवानां सुप्तत्वं साधु । जयन्ति ! ये इमे जीवाः धार्मिकाः, धर्मानुगाः, यावत् धर्मेणैव वृत्ति कल्पयन्तो चिरन्ति एतेषां खलु जीवानां जागरिकत्वं साधु, एते खलु जीवाः जाग्रतः सन्तो बहूनां प्राणानां यावत् सच्चानाम्, अदुःखापनायै यावत् - अपरितापनायै वर्तन्ते, ते खलु जीवाः जाग्रतः आत्मानं वा, परं वा, तदुभयं वा, वहीभिः धार्मिकीभिः संयोजनाभिः संयोजयितारो भवन्ति, एते खलु जीवाः जाग्रतः धर्मजागरिकतया आत्मानं जागरविवारी भवन्ति, एतेषां खलु जीवानां जागरिकत्वं साधु, तत् तेनार्थेन जयन्ति । एवमुच्यते-अस्त्ये केषां जीवानां सुप्तत्वं साधु अस्त्येकेषां जीवानां जागरिकत्वं साधु | वलिकत्वं भदन्त ! साधु, दुर्वळिक साधु ? जयन्ति | अस्त्येकेषां जीवानां वलिकत्व साधु, अस्त्येकेषां जीवानां दुर्बलत्वं साधु, तत् केनार्थेन भदन्त ! एवमुच्यते यावत् साधु ? जयन्ति ! ये इमे जीवाः अधार्मिकाः यावत्-विहरन्ति एतेषां खलु जीवानां दुर्बलिकत्व साधु, एते खलु जीगः एवं यथा सुप्तस्य तथा दुर्वलिकस्य वक्तव्यता भणितव्या वर्ष
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy