SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ - भगवतीस्त्रे समुद्राच, तत् खलु मिथ्या, अहं पुनगौतम ! एवमाख्यामि यावत् रूपयामि-एवं खलु जम्बूद्वीपादिका द्वीपाः, लवणादिकाः समुद्राः संस्थानतः एकविधविधानाः, विस्तारतः अनेकविधविधाना एवं यथा जीवाभिगमे यावत् स्वयम्भूरमणपर्यवसानाः अस्मिन् तिर्यग्लोके असंख्येयाः द्वीपसमुद्राः प्रज्ञप्ताः श्रमणायुष्मन्! अस्ति खलु भदन्त ! जम्बूद्वीपे द्वीपे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि सरसान्यपि, अरसान्यपि, सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यबद्धानि, अन्योन्यस्पृष्टानि यावत्-घटतया तिष्ठन्ति ? हन्त, अस्ति । अस्ति खलु भदन्त ! लवणसमुद्रे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगधान्यपि, सरसान्यपि, अरसान्यपि सस्पर्शान्यपि, अस्पर्शान्यपि, अन्योन्यवद्धानि, अन्योन्यस्पृष्टानि यावत् घटतया तिष्ठन्ति ? इन्त, अस्ति । अस्ति खल्ल भदन्त ! धातकीखण्डे द्वीपे द्रव्याणि सवर्णान्यपि, अवर्णान्यपि, सगन्धान्यपि, अगन्धान्यपि, सरसान्यपि, अरमान्यपि, सरपर्शान्यपि, अस्पर्शान्यापि, एवमेव एवं यावत् स्वयंभूरमणसमुद्रः ? यावत् हन्त, अस्ति । ततः खलु सा महातिमहालया महापत् श्रमणस्य भगवतो महावीरस्य अन्तिके एतमर्थ श्रुत्वा निशम्य हृष्टतुष्टाः श्रमणं भगवन्तं महावीर वन्दते, नमस्यति, वन्दित्वा, नमस्यित्वा यामेव दिशं प्रादुर्भूता तामेव दिशं प्रतिगता। ततः खलु हस्तिनापुरे नगरे शशाटकयावत् पथेषु बहुजनोऽन्योन्यस्य एवमाख्याति यावत् प्ररूपयति यत् खलु देवानुप्रियाः ! शिवो राजर्पिः एचमाख्याति यावत् प्ररूपयति-अस्ति खल देवानुपियाः ! मम अतिशयं ज्ञानं यावत् समुद्राश्च, तत् नायमर्थः समर्थः, श्रमणो भगवान महावीरः एवमाख्याति यावत् मरूपयतिएवं खलु एतस्य शिवस्य राजः षष्ठपष्ठेन तदेव यावत्-भाण्डनिक्षेपं करोति, कृत्वा हस्तिनापुरे नगरे शृङ्गाटकयावत् समुद्राश्च । ततः खलु तस्य शिवस्य राजर्षेः अन्तिके एतमर्थ श्रुत्वा, निशम्य, यावत् समुद्राश्च, तत् खलु मिथ्या, श्रमणो भगवान महावीरः एवमाख्याति यावत् एवं मरूपयति-एवं खलु जम्बूद्वीपादिका द्वीपाः, लपणादिकाः समुद्राः तदेव यावत् असंख्येयाः द्वीपसपुद्राः प्रज्ञप्ता श्रमणायुष्मन् !| ततः खलु स शिवो राजर्पिः बहुजनस्य अन्ति के एतमर्थ श्रुत्वा निशम्य शशितः काङ् क्षेतो विचिकित्सितो भेदसमापन्नः कलुपसमापन्नो जातश्चापि अभ. वत ॥ ततः खल्ल तस्य शिवस्य राजर्षे शङ्कितस्य काक्षितस्य यावद कलुषसमापन्नस्य तद्विभङ्गज्ञानं क्षिममेव परिपवितम्। ततः खलु तस्य शिवस्य राजः अयमेतद्रपः आध्यात्मिको यावत् समुदपद्यत-एवं खलु श्रमणो भगवान् महावीरः आदिकर तीर्थकरो यावत् सर्वज्ञः सर्वदर्शी आकाशगतेन चक्रेण यावत् सहस्राम्रवने उपाने यथामतिरूपं यावत् विहरति, तत् महाफलं खलु तथारूपाणाम् अहतां
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy