SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५४ भगवत सू छाया-चमरस्य खलु भदन्त ! असुरेन्द्रस्य असुरकुमारराजस्य सोमस्य महाराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-कनका १, कनकलता २, चित्रगुप्ता ३, वसुन्धरा ४,। तत्र ग्बल एकैकस्या देव्याः एकैकं देवीसहस्रम् परिवारः प्रज्ञप्तः । प्रभुः खलु ताभ्य एकैका देवी अन्यत् एकैक देवीसहस्रं परिवारं विकुर्वितुम्, एवमेव सपूर्वापरेण चत्वारि देवी सहस्राणि, तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! चमरस्य असुरेन्द्रस्य असुरकुमारराजस्य सोमो महाराजः सोमायां राजधान्यां, सभायां सुधर्मायां, सोमे सिंहासने तुडिकेन, अवशेपं यथा चमरस्य, नवरं परिवारो यथा सूर्याभस्य, शेष तदेव, यावत् नो चैव खल्लु मैथुनपत्ययिकम् । चमरस्य खलु भदन्त ! यावत् राजस्य यमस्य महाराजस्य कति अग्रमहिष्यः १ एवमेव, नवरं यमायां राजधान्यां शेष यथा सोमस्य । एवं वरुणस्यापि, नवरं वरुणायां राजधान्याम् । एवं वैश्रवणस्यापि, नवरं वैश्रवणायां राजधान्यां, शेषं तदेव यावत् नो चैव खलु मैथुनमत्ययिकम् । वले खल्ल भदन्त ! वैरोचनेन्द्रस्य पृच्छा, आर्याः ! पञ्च अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-शुंभा १, निशुंभा २, रम्भा ३, निरम्भा ४, मदना ५, तत्र खलु एकैकस्या देव्याः अष्ट अष्ट शेष यथा चमरस्य, नवरं बलिचञ्चायां राजधान्याम् , परिवारो यथा मोकोद्देशके, शेष तदेव, यावत् नो चैव खलु मैथुनप्रत्ययिकम् । बलेः खलु भदन्त ! वैरोचनेन्द्रस्य, वैरोचनराजस्य सोमस्य महाराजस्य कति अनमहिष्यः प्रज्ञप्ताः ? आर्याः! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-मेनका १, सुभद्रा २, विजया ३, अशनिः ४,। तत्र खल एकैकस्याः देव्याः शेषं यथा चमरसोमस्य, एवं यावत् वैश्रवणस्य । धरणस्य खलु भदन्त ! नागकुमारेन्द्रस्य नागकुमारराजस्य कति अग्रमहिष्यः प्राप्ताः? आर्याः! षट् अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-इला १, शुक्रा २, सतारा ३, सौदामिनी ४, इन्द्रा ५, घनविद्युत् ६, तत्र खलु एकैकस्याः देव्या षट् षट् देवीसहस्राणि परिवारः प्रज्ञप्तः। प्रभुः खलु ताभ्यः एकैका देवीअन्यानि षट् षट् देवीसहस्राणि परिवारं विकुर्वितुम् ? एवमेव सपूर्वापरेण पट्त्रिंशत् देवी सहस्राणि, तदेतत् तुडिकम् । प्रभुः खलु भदन्त ! धरणः शेष तदेव, नवरम् धरणायां राजधान्याम् , धरणे सिंहासने स्वकः परिवारः, शेष तदेव । धरणस्य खल्लु भदन्त ! नागकुमारेन्द्रस्य कालवालस्य लोकपालस्य महाराजस्य कति अग्रमहिष्यः प्रज्ञप्ताः ? आर्याः! चतस्रः अग्रमहिष्यः प्रज्ञप्ताः, तद्यथाअशोका १, विमला २, सुप्रभा ३, सुदर्शना ४, । तत्र खलु एकैकस्याः अवशेष यथा चमरस्य लोकपालानाम् । एवं शेषाणां त्रयाणामपि । भूतानन्दस्य खलु भदन्त ! पृच्छा? आर्याः! षट् अग्रमहिष्यः प्रज्ञप्ताः, तद्यथा-रूपा १, रूपांशा २, मुरूपा ३,
SR No.009319
Book TitleBhagwati Sutra Part 09
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1967
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy