SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ भवभावना-२६९ [सूचीभिरग्निवर्णाभिः भिद्यमानस्य जन्तोः। यादृशं जायते दुःखं गर्भेऽष्टगुणं ततः॥२६८॥ [] पित्तवसमंससोणियसुक्कट्टिपुरीसमुत्तमज्झम्मि। असुइम्मि किमि व्व ठिओ, सि जीव ! गब्भम्मि निरयसमे॥२६९॥ __ [पित्तवशामांसशोणितशुक्रास्थिपुरीषमूत्रमध्ये।। अशुचौ कृमिरिव स्थितोऽसि जीव ! गर्भे निरयसमे॥२६९॥॥] [अव] इति एवं कोऽपि दुःखितः पापकारी वातपित्तादिदूषिते देवादिस्तम्भिते वा गर्भे द्वादशसंवत्सराणि निरन्तरं तिष्ठति। कथम्भूते? शुक्रशोणितादिभ्योऽशुचिद्रव्येभ्यो प्रभव उत्पत्ति स तथा तस्मिन्निति अशुचिस्वरूप एव शुक्रशोणितेऽशुचिरूपे = मलसञ्चयाविले इत्यर्थः। भवस्थितिश्चैषा कायस्थितिमाश्रित्य कोऽपि द्वादशवर्षाणि जीवित्वा तदन्ते च मृत्वा तथाविधकर्मवशात् तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनर्वादशवर्षाणि जीवतीत्येवं चतुर्विंशति वर्षाण्युत्कर्षतो गर्भजन्तुरवतिष्ठते। एतदप्यु(नु)क्तमपि स्वयमेव द्रष्टव्यम्॥२६५॥२६६॥२६७॥२६८॥२६९॥ ___गर्भाच्च योनिमुखे[न] निर्ग[च्छतस्] तस्य सम्यक्स्वरूपस्येतरस्य च स्वरूपमाह[] इय कोइ पावकारी, बारस संवच्छराइं गन्भम्मि। उक्कोसेणं चिट्ठइ, असुइप्पभवे असुइयम्मि॥२७०॥ [इह कश्चित् पापकारी द्वादश संवत्सरान् गर्भ। उत्कृष्टेन तिष्ठति अशुचिप्रभवेऽशुचौ॥२७०॥] [म] तत्तो पाएहिं सिरेण वा वि सम्मं विणिग्गमो तस्स। तिरियं णिग्गच्छंतो, विणिवायं पावए जीवो॥२७१॥ ततः पादाभ्यां शिरसा सम्यग् विनिर्गमस्तस्य। तिर्यग् निर्गच्छन् विनिपातं प्राप्नोति जीवः।।२७१॥] [अव] ततो गर्भाधोनिमुखे पादाभ्यांशीर्षेण वा तस्य जीवस्य निर्गमो भवति। अथ कथमपि तिर्यग्व्यवस्थितो निर्गच्छति तदा जननी गर्भश्च द्वावपि विनाशं प्राप्नुतः॥२७०॥२७१॥ १. गब्भाओ निहरंतस्स जोणिजंतनिपीलणे। सहसाहस्सियं दुक्खं कोडाकोडिगुणं वि वा।। (छाया-गर्भाद् निःसरतो योनियन्त्रनिपीलने। शतसाहसिकं दुःखं कोटाकोटिगुणमपि वा।।) एषा गाथा अधिका क्वचिद् मूले मु. ब.।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy