SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भवभावना- २३७ बडिशम्=प्रलम्बवंशाग्रन्यस्तलोहमयकीलकरूपम्। तत्र लोहकिलिकाग्रन्यस्तो य आमिषलवस्तत्र लुब्धः॥२३३॥ इह च मत्स्यभवे समुत्पन्नजीवाः पित्रादिना भक्ष्यन्ते इति संसारासमञ्जसतां दर्शयति [मू पियपुत्तो वि हु मच्छत्तणं पि' जाओ सुमित्तगहवड़णा । बिडिसेण गले गहिओ, मुणिणा मोयाविओ कह वि॥२३४॥ [प्रियपुत्रोऽपि खलु मत्स्यत्वमपि जातः सुमित्रगृहपतिना। डशे गले गृहीतो मुनिना मोचितः कथमपि ॥ २३४॥] [अव] प्रकटार्था। भावार्थः कथानकादवसेयः। तच्चेदम् [सुमित्रगृहपतिकथा] ६७ पद्मसरग्रामे सुमित्रो गृहपतिस्तस्यापुत्रस्य वृद्धत्वे पुत्रो जातः। प्राणप्रियस्तं विना स क्षणमपि न तिष्ठति। षोडशे वर्षे पुत्रो मृत्वा मत्स्यो जातः । अन्यदा सुमित्रेण स एव मत्स्यो बडिशेन गले गलितः। ज्ञानिना सम्यक् स्वरूपं कथितम् । स मोचितः । सुमित्रः प्रतिबोधितः। प्रव्रज्य देवलोकं गतः। इति सुमित्राख्यानकम्॥२३४॥ अथ सामान्येनात्मानुशास्तिगर्भं खचराणां स्वरूपमाह [मू पक्खिभवेसु गसंतो, गसिज्जमाणो य सेसपक्खीहिं । दुक्खं उप्पायंतो, उप्पन्न हो य भमिओ सि ॥ २३५॥ [पक्षिभवेषु ग्रसन् ग्रस्यमानश्च शेषपक्षिभिः। दुःखमुत्पादयन्नुत्पन्नदुःखश्च भ्रान्तोऽसि ॥ २३५॥] [मू] खरचरणचवेडाहि य, चंचुपहारेहिं निहणमुवणेंतो। निहणिज्जंतो य चिरं, ठिओ सि ओलावयाईसु ॥ २३६ ॥ [खरचरणचपेटाभिश्च चञ्चुप्रहारैः निधनमुपनयन्। निहन्यमानश्च चिरं स्थितोऽसि श्येनादिषु॥२३६॥] [मू] पासेसु जलियजलणेसु कूडजंतेसु आमिसलवेसु । पडिओ अन्नाणंधो, बद्धो खद्धो निरुद्धो य॥ २३७॥ १. मच्छत्तणम्मि इति पा. प्रतौ।
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy