________________
भवभावना ७०
[नरकतिर्यगादिषु तस्यापि दुःखानि अनुभवतः। दृश्यते न कोऽपि द्वितीयो यो अंशं गृह्णाति दुःखस्य॥६६॥]
[मू] भोत्तूण चक्किरिद्धिं, वसिउं छक्खंडवसुहमज्झम्मि। एक्को वच्चइ जीवो, मोत्तुं विहवं च देहं च॥६७॥ [भुक्त्वा चक्र्यर्द्धिमुषित्वा षट्खण्डवसुधामध्ये।
एको व्रजति जीवो मुक्त्वा विभवं च देहं च॥६७॥]
[मू] एक्को पावइ जम्मं, वाहिं वुड्ढत्तणं च मरणं च । एक्को भवंतरेसुं, वच्चइ को कस्स किर बीओ ? ॥६८॥ [एकः प्राप्नोति जन्म व्याधिं वृद्धत्वं च मरणं च।
एको भवान्तरेषु व्रजति कः कस्य किल द्वितीयः ? || ६८॥]
एकत्वभावनोपसंहारमाह
[मू] इय एक्को च्चिय अप्पा, जाणिज्जसु सासओ तिहुयणे वि। क्कंति महनिवस्स व जणकोडीओ विसेसाओ ॥ ६९ ॥
[इति एकश्चैवात्मा जानीहि शाश्वतः त्रिभुवनेऽपि । तिष्ठन्ति मधुनृपस्येव जनकोटयो विशेषाः॥ ६९ ॥]
[मू] अन्नं इमं कुडुंबं', अन्ना लच्छी सरीरमवि अन्नं। मोत्तुं जिणिंदधम्मं, न भवंतरगामिओ अन्नो॥७०॥
[अन्यदिदं कुटुम्बमन्या लक्ष्मीः शरीरमप्यन्यद्। मुक्त्वा जिनेन्द्रधर्मं न भवान्तरगामिकोऽन्यः॥७०॥]
१९
[मधुनृपतिकथा]
वाणारस्यां मधुनृपस्तस्य परबलधीरो नाम पत्तिर्लक्षयोधी । तस्य जीवनं स्वर्णलक्षम्। अन्यदा कुरुदेशेशो बहुसैन्यस्तत्रागतः । मधुनृपोऽल्पबलोऽप्यभ्यनिर्विण्णोऽजनि। युद्धे न भग्नः । इतश्च परबलधीरेण तथा युद्धं यथा क्षणेन भग्नं कुरुदेशेशबलम्। निगृहीतस्तन्नृपः। जितं मधुनृपेण । सुभटो भृशं सत्कृतः । पुरे प्राप्तो नृपश्चिन्तयति, चतुरङ्गसैन्ये पत्तय एव सारमङ्गं तसा ( तदसौ) बहुतमवर्षजीवनदानेन सङ्ग्रहिता घना: पत्तिकोटयः। सदा तद्वेष्टितस्तिष्ठति। अन्यदा मृत्युकाले
१. वसिओ इति पा. प्रतौ।, २. कुडुंबमेयं इति पा. प्रतौ।