SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ १६ भवभावना-५४ हता: षष्ठिसहस्रकुमाराः तत्सैन्या वह्नौ प्रविशन्तः शक्रेण निवारितास्तेन विप्ररूपेण वियोगार्त: सगरो बोधितः शिवमगात्। इति सगरसुताख्यानकं समाप्तम्। अथ दृष्टान्तगर्भमशरणत्वभावनोपसंहारमाह [मू] इय नाऊण असरणं, अप्पाणं गयउराहिवसुओ व्व । जरमरणवल्लिविच्छित्तिकारए जयसु जिणधम्मे ॥५४॥ [इति ज्ञात्वाशरणमात्मानं गजपुराधिपसुत इव। जरामरणवल्लीविच्छित्तिकारके यतस्व जिनधर्मे ॥ ५४ ॥ ] [अव] इति = पूर्वोक्तप्रकारेण रोगजरामृत्युविषयेऽशरणमात्मानं ज्ञात्वा रोगजरामरणवल्लीविच्छेदकारके यतस्व जिनधर्मे, क इव? गजपुरराजसूनुरिवोद्यमं कुरु। [वसुदत्तकथा] उदाहरणं यथा कुरुदेशे गजपुरे भीमरथनृपजायासुमङ्गलासुतो वसुदत्तः ७२(द्वासप्तति)कलावान् जिनधर्मभावितो निगोदादिविचारज्ञो राज्ञा महाविभूत्या ५००(पञ्चशत) कन्याः परिणायितः । तद्योग्या ५०० ( पञ्चशत) आवासा हैमदण्डकलशध्वजतोरणमत्तवारणादिरम्या धनधान्यादिभृताः कारिता:। अन्यदा गवाक्षस्थो कुमारो नरमेकं सर्वाङ्गगलत्कुष्ठव्याधिबाधितम्, तत्पृष्ठौ (ष्ठे ) तु पलितवलिकलितं गलल्लालाविलवदनं भग्नपृष्ठिं यष्टिविलग्नं जराग्रस्तं स्थविरमेकम्, तत्पृष्ठे नृचतुष्कवाह्यं शबं च पश्यति। एवं रोगजरामरणग्रस्यमानमशरणं जनं दृष्ट्वा निर्विण्णस्तादृशं राज्यं त्यक्त्वा प्रव्रज्य सिद्धः ॥ इति गजपुराधिपसुतवसुदत्तकथा॥५४॥ इति द्वितीयभावना॥ [तृतीया एकत्वभावना] यदि नाम स्वकृतकर्मफलविपाकमनुभवतां शरणं न कोऽपि सम्पद्यते, तथापि तद्वेदने द्वितीयः सहायमात्रं कश्चिद्भविष्यत्येतदपि नास्तीति दर्शयन्निदानीमशरणत्वभावनानन्तरमेकत्वभावनामाह [मू] एक्को कम्माई समज्जिणेड़ भुंजइ फलं पि तस्सेक्को। एक्कस्स जम्ममरणे, परभवगमणं च एक्कस्स॥५५॥
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy