SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ भवभावना ५३ [अर्थेन नन्दराजः न रक्षितो गोधनेन कुचिकर्णः । धान्येन तिलकश्रेष्ठी पुत्रैर्न त्रातः सगरः॥५३॥] सुगमा। कथानिकानि तूच्यन्ते [नन्दकथा] गौडदेशे पाटलीपुरे त्रिखण्डाधिपो नन्दो राजा। सः अकराणां करं चक्रे सकराणां महाकरम्। १५ सर्वोपायैर्धनं लोकान्नि:कृपः समुपाददे। व्यवहारोऽपि चर्मनाणकैः प्रवृत्तः । लोको भूभाजनाशनो जातः। स स्वर्णैः पर्वतानकारयत्। नृपा(पोऽमात्यादिभि: प्रतिबोध्यमानोऽप्यतृप्त एवान्ते “हा! मे धनानि कस्य स्युः” इति महार्तिपरो मृत्वा दुरन्तदुःखभागभूत्। इति नन्दकथा। [कुविकर्णकथा] मगधदेशे सुघोषग्रामे कुविकर्णो ग्रामणीः। स मीलितानेकगोकुललक्षः विवदमाने वल्लभानां कृष्णादिवर्णै: संविभज्य गा ददौ । स तेष्वेव वसनक्रमेण दध्याद्यजीर्णेन वेदनाक्रान्तो “हा ! गवादयो वः क्व कदा लप्स्ये ?” इति महार्तिर्मृत्वा तिर्यक्त्वमाप। इति कुविकर्णकथा। [तिलकश्रेष्ठिकथा] अचलपुरे तिलकश्रेष्ठी ग्रामपुरादिषु बहुधान्यसङ्ग्रहो दुर्भिक्षे धान्येभ्यः प्रत्युपातैर्महाधनैर्बभार धान्यकोष्ठकान् । पुनरन्यदा नैमित्तिकगिरा स्वपरद्रव्येण सङ्गृहीतानि प्रचुरधान्यो मेघवृष्टौ “हा! मे धान्यानि कथं भावीनि” इति हृदयस्फोटेन मृत्वा नरकं ययौ ॥ इति तिलकश्रेष्ठिकथा । [सगरचक्रिकथा] अयोध्यायां जितशत्रुनृपाङ्गजोऽजितनाथः सुमित्रयुवराज्ञः सगरश्चक्रवर्ती सुतः । तत्सुतो जिह्रुकुमारो विनयसन्तुष्टपितृरत्नानि गृहीत्वा पृथ्वीविलोकनाय गतोऽष्टापदेऽष्टयोजनोच्छ्रायेऽर्धविस्तृते योजनायामार्धविस्तृत त्रिगव्यूतोच्चचैत्ये सौवर्णे स्वपूर्वजश्रीभरतकारिते देवान् नत्वा तद्रक्षार्थं कृतपरिखो रजः पातकुपितज्वलनप्रभनागनिवारितोऽपि गङ्गाप्रवाहं तत्रानीतवान्। पङ्कपातदूननागदृष्टिविषेण
SR No.009259
Book TitleBhavbhavna Prakaranam
Original Sutra AuthorHemchandracharya
AuthorVairagyarativijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2014
Total Pages248
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy