SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ (वसन्ततिलका-वृत्तम्) श्रीनाभिराजतनुर्ज शुभमिष्टिनाथं, पापापहं मनुजनागसुरेश-सेव्यम्। संसार-सागर-सुपोतसमं पवित्रं, वन्दामि भव्यसुखदं वृषभ जिनेशम्॥2॥ यस्यात्र नाम जपतः पुरुषस्य लोके, पापं प्रयाति विलयं क्षणमात्रतो हि। सूर्योदये सति यथा तिमिरस्तयान्तं, वन्दामि भव्यसुखदं वृषभं जिनेशमं॥3॥ सर्वार्थसिद्धिनिलयाद्भुवि यस्य पुण्यात्, गर्भावतार-करणेऽमर-कोटिवर्गैः। वृष्टिः कृता मणिमयी पुरुदेशतस्तं, वन्दामि भव्यसुखद वृषभं जिनेशम्॥4॥ जन्मावतारसमये सुरवृन्द-वंद्यैः, भक्त्यागतैः परमदृष्टितया नतस्तैः। नीत्वा सुमेरुमभिवन्द्य सुपूजितस्तं, वन्दामि भव्यसुखदं वृषभं जिनेशम्॥5॥ षट्कर्मः युक्तिमवदर्श्य दयां विधाय, सर्वाः प्रजाः जिनधुरेण वरेण येन । संजीविताः सविधिना विधिनायकं तं, वन्दामि भव्यसुखद वृषभं जिनेशम्।।6।। दृष्ट्वा सकारणमरं शुभदीक्षिताङ्गं, कृत्वा तपः परममोक्षपदाप्ति हेतुम्। कर्मक्षयः परिकृतः भुवि येन तहि वन्दामि भव्यसुखद वृषभं जिनेशम्॥7॥ ज्ञानेन येन कथितं सकलं सुतत्त्वं दृष्ट्वा स्वरूपमखिल परमार्थ सत्यं । तद्दर्शितं तदपि येन समं जनेभ्यो, वन्दामि भव्यसुखदं वृषभं जिनेशम् ॥ 8 ॥ इन्द्रादिभिः रचितमिष्टिविधिं यथोक्तं, सत्प्रातिहार्यममलं सुखिनं मनोज्ञं। यस्योपदेशवशतः सुखता नरस्य, वन्दामि भव्यसुखदं वृषभं जिनेशम्॥9॥ पञ्चास्तिकाय षड्द्रव्यक सप्ततत्त्व, त्रैयोक्यकादि - विविधानि विकासतानि । स्याद्वादरूप-कुसुमानि हि येन तं च, वन्दामि भव्यसुखदं वृषभं जिनेशम्।।10।। कृत्वोपदेशमखिलं जिनवीतरागो, मोक्षं गतो गतविकारः पर-स्वरूपः। सम्यकत्वः मुख्यगुणकाष्टक सिद्धकस्त्वं, वन्दामि भव्यसुखद वृषभं जिनेशम् ॥11॥ विविध-विभव-कर्ता, पाप-सन्ताप- हर्ता, शिवपद सुख-भोक्ता, स्वर्ग- लक्ष्म्यादि-दाता। -मुनि-सेव्यः, “सोमसेनेन ” पूज्यः, वृषभजनपतिः श्रीं, वाञ्छितां मे प्रदद्यात्॥12॥ इदं स्तोत्रं पठित्वा हृदयस्थितः सिंहासनस्योपरि पुष्पाञ्जलिं क्षिपेत्। गणधर -‍ 35
SR No.009254
Book TitleVidhan
Original Sutra AuthorN/A
AuthorZZZ Unknown
PublisherZZZ Unknown
Publication Year
Total Pages1409
LanguageHindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy