SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५४ जलदरवगभीरै- र्देवराजो वचोभिरनुनयहृदयस्तान् सूरिराजानुवाच । स्मरतु बहुकृपाभि-र्मां भवानुज्जयिन्या नगरपतिमनार्यं देव ! माणिक्यसिंहम् ॥७॥ भवति सति मयेयं दिव्यसमृद्धिराप्ता भवति सति ममेयं शक्तिरिष्टङ्कराऽस्ति । कथयतु मयि नाथः कार्यजातं प्रसन्नो गुरुपदकमलानां पुण्यलाभोऽर्चनेन ॥८॥ गिरिपतिशुभयात्रामार्गगामीह देशे गुरुवर ! निहतोऽहं केनचिच्चौरकेण । तव वचनरसानामेकचित्तः समाधिसुखममृतमिवाप्य प्राप्तवान् देवलोकम् ||९|| समभवमहमिन्द्रो माणिभद्राभिधानोऽ धरभुवि किल षष्ठो व्यन्तराणां निकाये । द्विरद-नवसहस्त्रैस्तुल्यशक्तिर्ममास्ति बटुक-धवल- कृष्णैर्भैरवैरचितोऽस्मि ॥१०॥ विदधति परिचर्यां विंशतीनां सहस्त्रैयि गुरुवर ! देवास्त्वत्प्रभावः किलाऽयम् । सति मयि भवतां चेद् वर्तते काऽपि चिन्ता ननु खलमलतुल्या ऋद्धयस्तन्ममेमाः ॥११॥ तव वचनवशोऽहं पापमार्गं जघन्यं हृदय-तनु- वचोभि-निर्जहौ सर्वथैव । तदुपगतमदृष्टं मामिहाऽस्थापयत्तत् तव हितकरणार्थं त्वद्गुणैस्स्यां सहायः ॥ १२ ॥ श्रीमाणिभद्रमहाकाव्यम् ९
SR No.009095
Book TitleManibhadrakavyam
Original Sutra AuthorN/A
AuthorPrashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2008
Total Pages209
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Literature
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy