SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ પા. ૨ સૂ. ૧૯] વ્યાસ રચિત ભાષ્ય અને વાચસ્પતિ મિશ્રરચિત તત્ત્વવૈશારદી [ ૨૦૩ नासत्यपीति । स्यादेतत्-अव्यक्तावस्थायामप्यस्ति महदादि तदात्मना । न हि सतो विनाशो, विनाशे वा न पुनरुत्पादो, न ह्यसत उत्पाद इति महदादिसद्भावात्पुरुषार्थक्रिया प्रवर्तेत । तत्कथं निःसत्त्वमव्यक्तमित्यत आह- निःसदसदिति । निष्कान्तं कारणं सतः कार्यात् । यद्यपि कारणावस्थायां सदेव शक्त्यात्मना कार्यं तथापि स्वोचितार्थक्रियामकुर्वद असदित्युक्तम् । न चैतत्कारणं शशविषाणायमानकार्यमित्याह-निरसदिति । निष्क्रान्तमसतस्तुच्छरूपात्कार्यात् । तथा हि सति व्योमारविन्दमिवास्मान कार्यमुत्पद्यतेति भावः । प्रतिसर्गमुक्तमुपसंहरति-एष तेषामिति । एष इत्यनन्तरोक्तात्पूर्वस्य परामर्शः । लिङ्गमात्राद्यवस्थाः पुरुषार्थं कृतत्वादनित्या, अलिङ्गावस्था तु पुरुषार्थेना कृतत्वानित्येत्यत्र हेतुमाह-अलिङ्गावस्थायामिति । कस्मात्पुनर्न पुरुषार्थो हेतुरित्यत आहनालिङ्गावस्थायामिति । भवतिना विषयेण विषयिज्ञानमुपलक्षयति । एतदुक्तं भवतिएवं हि पुरुषार्थता कारणमलिङ्गावस्थायां ज्ञायेत । यद्यलिङ्गावस्था शब्दाधुपभोगं वा सत्त्वपुरुषान्यताख्याति वा पुरुषार्थं निवर्तयेत्तनिवर्तने हि न साम्यावस्था स्यात् । तस्मात्पुरुषार्थकारणत्वमस्यां न ज्ञायत इति नास्याः पुरुषार्थताहेतुः । उपसंहरति-नासाविति । इतिस्तस्मादर्थे । अनित्यामवस्थामाह-त्रयाणां लिङ्गमावाविशेषविशेषाणामित्यर्थः । पर्वस्वरूपं दर्शयित्वा गुणस्वरूपमाह-गुणास्त्विति । निदर्शनमाह-यथा देवदत्त इति । यत्रात्यन्तभिन्नानां गवामुपचयापचयौ देवदत्तोपचयापचयहेतू तत्र कैव कथा गुणेभ्यो भिन्नाभिन्नानां व्यक्तीनामुपजनापाययोरित्यर्थः । ननु सर्गक्रमः किमनियतो नेत्याह-लिङ्गमात्रमिति । न खलु न्यग्रोधधाना अह्नायैव न्यग्रोधशाखिनं सान्द्रशाद्वलदलजटिलशाखाकाण्डनिपीतमार्तण्डचण्डातपमण्डलमारभन्ते किं तु क्षितिसलिलतेजःसंपर्कात्परम्परोपजायमानाङ्करपत्रकाण्डनालादिक्रमेण । एवमिहापि युक्त्यागमसिद्धः क्रम आस्थेय इति । कथं भूतेन्द्रियाण्यविशेषसंसृष्टानीत्यत आह-तथा चोक्तं पुरस्तादिति इदमेव सूत्रं प्रथमं व्याचक्षाणैः । अथ विशेषाणां कस्मान्न तत्त्वान्तरपरिणाम उक्त इत्यत आह- न विशेषेभ्य इति । तत्किमिदानीमपरिणामिन एव विशेषाः, तथा च नित्याः प्रसज्येरनित्यत आह - तेषां त्विति ॥१९॥ દશ્ય ગુણોના સ્વરૂપભેદો દર્શાવવા આ સૂત્રનો આરંભ થાય છે. વિશેષ, અવિશેષ, લિંગમાત્ર અને અલિંગ ગુણોનાં પર્વો (વિકાસના તબક્કાઓ) છે. અવિશેષ એટલે જે શાન્ત, ઘોર અને મૂઢ એવાં વિશેષ લક્ષણોથી રહિત છે, એમનાં પરિણામરૂપ વિશેષો છે. એમની પ્રકૃતિ (કારણ) કોઈ બીજું તત્ત્વ નથી. “તત્રાકાશવાયુ:” વગેરેથી એ વિશેષો કહે છે. ઉત્પત્તિના ક્રમ પ્રમાણે એમનો ઉલ્લેખ કરવામાં આવે છે. સત્ત્વપ્રધાન અસ્મિતા (અહંકાર) લક્ષણ અવિશેષથી જ્ઞાનેન્દ્રિયો ઉત્પન્ન થાય છે. રાજસ (અહંકાર)થી કર્મેન્દ્રિયો પેદા થાય છે. મન બંને
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy