SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ २०२ ] પતંજલિનાં યોગસૂત્રો [पा. २ सू. १८ થતું નથી. એ રીતે લિંગમાત્ર સાથે મળીને રહેલા છ અવિશેષો એનાથી છૂટા પડે છે. ક્રમપ્રમાણે પરિણામ થવાના નિયમને લીધે આમ બને છે અને એ અવિશેષોમાં એકરૂપ બનીને રહેલાં ભૂતો અને ઇન્દ્રિયો એમનાથી વિભક્ત થાય છે. વિશેષોથી આગળ કોઈ બીજું તત્ત્વ નથી, એમ અગાઉ કહ્યું છે, તેથી વિશેષો બીજા તત્ત્વરૂપે પરિણમતા નથી. એમનાં ધર્મ, લક્ષણ અને અવસ્થારૂપ પરિણામો આગળ કહેવાશે. ૧૯ तत्त्व वैशारदी दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते- विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्त्वान्तरप्रकृतयस्तेषां तानाह - तत्राकाशेति । उत्पादक्रमानुरूप एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषा: । राजसस्य कर्मेन्द्रियाणि । मनस्तूभयात्मकमुभयप्रधानस्येति मन्तव्यम् । अत्र च पञ्च तन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मितावदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम् । संकलय्य विशेषान्परिगणयति - गुणानामेष इति । 1 अविशेषानपि गणयति षडिति । संकलय्योदाहरति-तद्यथेति । विशिष्टं ह्यपरं परेणेति गन्ध आत्मना पञ्चलक्षणो, रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिलक्षणं, स्पर्श आत्मना द्विलक्षणः, शब्दः शब्दलक्षण एवेति । कस्य पुनरमी षडविशेषाः कार्यमित्यत आह- एते सत्तामात्रस्यात्मन इति । पुरुषार्थक्रियाक्षमं सत् । तस्य भावः सत्ता । तन्मात्र तन्महत्तत्त्वम् । यावती काचित्पुरुषार्थक्रिया शब्दादिभोगलक्षणा सत्त्वपुरुषान्यताख्यातिलक्षणा वास्ति सा सर्वा महति बुद्धौ समाप्यत इत्यर्थः । आत्मन इति स्वरूपोपदर्शनेन तुच्छत्वं निषेधति । प्रकृतेरयमाद्य: परिणामो वास्तवो न तु तद्विवर्त इति यावत् । यत्तत्परं विप्रकृष्टकालमविशेषेभ्यस्तदपेक्षया संनिकृष्टकालेभ्यो लिङ्गमात्रं महत्तत्त्वं तस्मिन्नेते षडविशेषा: सत्तामात्रे महत्यात्मन्यवस्थाय सत्कार्यसिद्धेर्विवृद्धिकाष्ठयमनुभवन्ति प्राप्नुवन्ति । ये पुनरविशेषाणां विशेषपरिणामास्तेषां च धर्मलक्षणावस्थाः परिणामा इति, सेयमेषां विवृद्धिक़ाष्ट्य परिणामकाष्ठेति । तदेवमुत्पत्तिक्रममभिधाय प्रलयक्रममाह-प्रतिसंसृज्यमानाः प्रलीयमानाः स्वात्मनि लीनविशेषा अविशेषास्तस्मिन्नेव सत्तामात्रे महत्यात्मन्यवस्थाय विलीय सहैव महता तेऽविशेषा अव्यक्तमन्यत्र लयं न गच्छतीत्यलिङ्गं प्रतियन्ति । तस्यैव विशेषणं निःसत्तासत्तम् इति । सत्ता पुरुषार्थक्रियाक्षमत्वम् । असत्ता तुच्छता । निष्क्रान्तं सत्ताया असत्तायाश्च यत्तत्तथोक्तम् । एतदुक्तं भवति सत्त्वरजस्तमसां साम्यावस्था न क्वचित्पुरुषार्थ उपयुज्यत इति न सती । नापि गगनकमलिनीव तुच्छस्वभावा । तेन
SR No.008883
Book TitlePatanjalina Yoga sutro
Original Sutra AuthorN/A
AuthorGautam Patel, Ramkrushna Tuljaram Vyas
PublisherSanskrit Sahitya Academy Gandhinagar
Publication Year2004
Total Pages512
LanguageGujarati
ClassificationBook_Gujarati & Worship
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy